________________ 400 Muni JAMBOVIJAYA नं० म० पृ० 218B, उक्तं च-“एकत्वव्यापितायां हि पूर्वादित्वं कथं भवेत् / सहचारिवशात् तच्चेदन्योन्याश्रयतागमः // सहचारिणां हि पूर्वत्वं पूर्वकालसमागमात् / कालस्य पूर्वादित्वं च सहचार्यवियोगतः // " [वार्तिकालङ्कारे पृ० 476 श्लो० 31] 'नित्यत्वव्यापितायां.. सहचारितथात्वाच्चेद०' इति वार्तिकालङ्कारे पाठः। नं० म० पृ० 220A, उक्तं च-"अशक्त्यान्येश्वराः पापप्रतिषेधं न कुर्वते / न त्वत्यन्तमशक्तेभ्यो व्यावृत्तमतिरिष्यते // अथाप्यशक्त एवासौ तथा सति परिस्फुटम् / नेश्वरेण कृतं सर्वमिति वक्तव्यमुच्चकैः // पापवत् स्वार्थकारित्वाद् धर्मादिरपि किं ततः।" [वार्तिकालङ्कारे पृ० 37 श्लो० 257-258] वार्तिकालङ्कारे 'अथाशक्त एवासौ तथा सति नेश्वरेण' इति खण्डितो गद्यरूप: पाठ उपलभ्यते। नं० म० पृ० 220B, उक्तं च-"क्रीडार्था तस्य वृत्तिश्चेत् प्रेक्षापूर्वक्रिया कुत: / एकस्य क्षणिका तृप्तिरन्य: प्राणैर्वियुज्यते // " [वार्तिकालङ्कारे पृ० 37 श्लो० 261] नं० म० पृ० 220B, “इदमेवं न वेत्येतत् कस्य पर्यनुयोज्यताम् / अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यताम् // " [वार्तिकालङ्कारे पृ० 35 श्लो० 248] पर्यनुयोज्यताम्' इति वार्तिकालङ्कारे पाठः।। नं० म० पृ० 220B, “स्वभावेऽध्यक्षत: सिद्धे यदि पर्यनुयुज्यते / तत्रेदमुत्तरं वाच्यं न दृष्टेऽनुपपन्नता // [वार्तिकालङ्कारे पृ० 35 श्लो० 249] 'सिद्धे परैः पर्यनुयुज्यते इति वार्तिकालङ्कारे पाठः / नं० म० पृ० 221A, उक्तं च-“यत् किंचिदात्माभिमतं विधाय निरुत्तरस्तत्र कृतः परेण / वस्तुस्वभावैरिति वाच्यमित्थं तदोत्तरं स्याद् विजयी समस्तः // " [वार्तिकालङ्कारे पृ० 35 पं० 14] __रिह वाच्यमित्थं तथोत्तर' इति वार्तिकालङ्कारे पाठः / श्लोकोऽयं भ्रान्त्या गद्यरूपेण वार्तिकालङ्कारेऽशुद्धः मुद्रितः /