________________ Quotations in Malayagiri's Commentary on the Nandisatra 401 नं० म० पृ० 221A, उक्तं च-“शास्त्रान्तराणि सर्वाणि यदीश्वरविकल्पत: / सत्यासत्योपदेशस्य प्रमाणं दानतः कथम् // " [वार्तिकालङ्कारे पृ० 37 श्लो० 262] नं० म० पृ० 221A, तथा चोक्तम्-“न न बाध्यत इत्येवमनुमानं प्रवर्तते / सम्बन्धदर्शनात् तस्य प्रवर्तनमिहेष्यते // " [वार्तिकालङ्कारे पृ० 43 श्लो९० 327] 'बाधत ... मितीरितम्' इति वार्तिकालङ्कारे पाठः / नं० म० पृ० 222A, यदुक्तम्-"नादृष्टपूर्वसर्पस्य रज्ज्वां सर्पमति: क्वचित / तत: पूर्वानुसारित्वाद् भ्रान्तिरभ्रान्तिपूर्विका // " [वार्तिकालङ्कारे पृ० 384 श्लो० 926] 'पूर्वदृष्टयनुसारित्वान्न हेतुर्वासना कथम्' इति वार्तिकालङ्कारे पाठः। नं० म० पृ० 223A, उक्तं च-"हेतुताऽन्वयपूर्वेण व्यतिरेकेण सिध्यति / नित्यस्याव्यतिरेकस्य कुतो हेतुत्वसम्भवः // " [वार्तिकालङ्कारे पृ० 33 श्लो० 227] 'सम्बन्धोऽन्वय ... कुतः सम्बन्धसम्भव:' इति वार्तिकालङ्कारे पाठः / नं० म० पृ० 223A, “विशेषणं विना यस्मान्न तुल्यानां विशिष्टता / " [शास्त्रवार्तासमुच्चये श्लो० 54] / ईदृशाः स्तोका बहवो वा उद्धृता दार्शनिका: पाठा अनेकेषु जैनग्रन्थेषु उपलभ्यन्ते / तेषां गवेषणं परिशीलनं च विदुषामत्यन्तमुपयोगि आनन्दप्रदं च भविष्यतीत्याशास्तेP.O.पंचासर पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकार(Via-विरमगाम) पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यगुजरात राज्य ,INDIA पूज्यपादगुरुदेव मुनिराजश्री भुवनविजयान्तेवासी PIN- 382750 मुनि जम्बूविजयः विक्रमसंवत् 2449 चैत्री पूर्णिमा, 6-3-93