________________ QUOTATIONS IN MALAYAGIRI'S COMMENTARY ON THE NANDISUTRA By Muni Jambuvijaya, Bhavnagar Gujarat श्रीशङ्केश्वरपार्श्वनाथाय नमः / श्री सद्गुरुभ्यो नमः। जैनागमस्य नन्दिसूत्रस्य आचार्यश्री मलयगिरिसूरिविरचितायां वृत्तौ उद्धृतानां दार्शनिकानां पाठानां मूलस्थानानि जैनागमग्रन्थेषु चतुर्विधा ग्रन्था उपलभ्यन्ते-द्रव्यानुयोगविषयका: 1, गणितानुयोगविषयकाः२, चरणकरणानुयोगविषयका: 3, धर्मकथानुयोगविषयकाश्चेति 4 / श्वेताम्बरजैनाभिमता आयारो(आचार:) 1, सूयगडो(सूत्रकृतम्) 2, ठाणं(स्थानम्) 3, समवाओ(समवायः) 4, वियाहपण्णत्ती(व्याख्याप्रज्ञप्तिः) 5, इत्यादयः 45 पञ्चचत्वारिंशत् आगमा: सुप्रसिद्धाः / एते च सर्वेऽपि अर्धमागध्यां भाषायां निबद्धाः / एतेषु केचिद् भगवतो महावीरस्य समये केचिच्च तदनन्तरनिकटसमये विरचिताः। विस्तरेण एतेषामागमानामर्थपरिज्ञानाय तदुत्तरकालीनैर्विभिन्नैराचार्यै: नियुक्ति-भाष्य-चूर्णिरूपा: व्याख्याग्रन्था विरचिताः / एते च सर्वेऽपि प्राकृतभाषायामेव सन्ति / . . ततः परं संस्कृतभाषाया यदा अधिकतरं प्राधान्यं जातं तदा संस्कृतभाषायामपि विभिन्नैराचार्यैर्वृत्तयो विरचयांचक्रिरे। किन्तु सर्वत्र मूला- गमविषयस्यैव प्राधान्यम् / दार्शनिकी चर्चा वैरल्येनैव (Hardly) तत्र दृश्यते / इदं तु आश्चर्यरूपम्- जैनागमेषु नन्दिसूत्रे 'मतिज्ञानम् 1, श्रुतज्ञानम् 2, अवधिज्ञानम् 3, मन:पर्यायज्ञानम् 4, केवलज्ञानम् 5' इति ज्ञानपञ्चकस्य विस्तरेण वर्णनमुपलभ्यते / अस्य जिनदासगणिमहत्तरविरचिता चूर्णिः आचार्यश्रीहरिभद्रसूरिविरचिता वृत्तिः, आचार्यश्रीमलयगिरिसूरिविरचिता वृत्तिश्च इति प्राचीनं व्याख्यात्रयमुपलभ्यते / आचार्यश्री मलयगिरिसूरिक्रमे द्वादशे शतक आसीत् / तेन विरचितायां वृत्तौ ज्ञानवर्णनस्य मुख्यत्वेऽपि महता १.इयं वृत्तिः आगमोदयसमित्या (SURAT) ईसवीये 1973 A.D. वर्षे प्रकाशिता / WZKS 38 (1994) 389-401