________________ 396 Muni JAMBOVIJAYA नं० म० पृ० 30A, आह च-"अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा / / ये भावान् वचनं तेषां नानुमानेन बाध्यते // " [वाक्यपदीये 1138] नं० म० पृ० 30A, उक्तं च-"जैनेश्वरे हि वचसि प्रमासंवाद ईक्ष्यते। प्रमाणबाधा त्वन्येषामतो द्रष्टा जिनेश्वरः // [ ] तुलना-“ताथागते हि वचसि प्रमासंवाद ईक्ष्यते / प्रमाणबाधा त्वन्येषामतो द्रष्टा तथागतः // " [वार्तिकालङ्कारे पृ० 328 श्लो० 532] नं० म० पृ० 30A, तथा चोक्तम्-“समानविषया यस्माद् बाध्य-बाधकसंस्थितिः / अतीन्द्रिये च संसारिप्रमाणं न प्रवर्तते // [वार्तिकालङ्कारे पृ० 328 श्लो० 533] 'बाधकतास्थितिः' इति वार्तिकालङ्कारे पाठः / नं० म० पृ० 30B, आह च-“वीतरागस्य न सुखं योषिदालिङ्गनादिजम् / वीतद्वेषस्य च कुत: शत्रुसेनाविमर्दजम् / / वीतमोहस्य न सुखमात्मीयाभिनिवेशजम् / ततः किं तादृशा तेन कृत्यं मोक्षेण जन्मिनाम् // " [वार्तिकालङ्कारे पृ० 329 श्लो० 560-561] अत्र वार्तिकालङ्कारे 'न वीतरागस्य' 'वीतद्वेषस्य तु' इति पाठः। नं० म० पृ० 33B, उक्तं च-“रूपातिशयपाशेन विवशीकृतमानसाः / स्वां योषितं परित्यज्य रमन्ते योषिदन्तरे // " [वार्तिकालङ्कारे पृ० 123 श्लो० 653] अत्र वार्तिकालङ्कारे 'योषितं तिरस्कृत्य कामिनो' इति पाठः / नं० म० पृ० 35B, आह च-“य: पश्यत्यात्मानं तत्रास्याहमिति शाश्वत: स्नेहः / स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते // गुणदर्शी परितुष्यन् ममेति तत्साधनान्युपादत्ते / तेनात्माभिनिवेशो यावत् तावत् स संसारे // " [प्रमाणवार्तिके 2 / 219-220] नं० म० पृ० 36B, उक्तं चान्यैरपि-“अवस्थिता हि वास्यन्ते भावा भावैरवस्थितैः।" [मीमांसाश्लोकवार्तिके निरालम्बनवादे श्लो० 185] वार्तिकालङ्कारेऽपि उद्धृतमिदम् पृ० 358 श्लो० 663]