________________ 398 Muni JAMBOVIJAYA नं० म० पृ० 66B, तथा चोक्तम्-“यथा जात्यस्य रत्नस्य नि:शेषमलहानित: / स्फुटैकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः // "[ ] नं० म० पृ० 74B, अकलङ्कोऽप्याह-“द्विविधं प्रत्यक्षज्ञानम्- सांव्यवहारिक मुख्यं च / तत्र सांव्यवहारिकमिन्द्रियानिन्द्रियप्रत्यक्षम्, मुख्यमतीन्द्रियज्ञानम् / " [लघीयत्रये श्लो० 4 स्वोपज्ञविवृतौ] नं० म० पृ० 135A, तथा चोक्तम्-“नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् / " [प्रमाणवार्तिके 3 / 34] नं० म० पृ० 165A, यत उक्तम्-“अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् / " [ ] "नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम्" इत्युत्तरार्धम् / नं० म० पृ० 165A, तथा चोक्तम्-“य: साध्यस्योपमाभूत: स दृष्टान्त इति कथ्यते।"[ नं० म० पृ० 171A, शङ्करस्वामी प्राह "अयस्कान्तोऽपि प्राप्यकारी, अयस्कान्तच्छायाणुभिः सह समाकृष्यमाणवस्तुनः सम्बन्धभावात्, केवलं ते छायाणव: सूक्ष्मत्वान्नोपलभ्यन्ते" [ ] नं० म० पृ० 171B, तथा च तद्ग्रन्थ:-"चक्षुः श्रोत्रं मनोऽप्राप्यकारि नं० म० पृ० 173A, “रूपस्पर्शादिसन्निवेशो मूर्तिः" [ ] इति वचनप्रामाण्यात् / नं० म० पृ० 173B, उक्तं च-“यथा च प्रेर्यते तूलमाकाशे मातरिश्वना / तथा शब्दोऽपि किं वायोः प्रतीपं कोऽपि शब्दवित् // " [वार्तिकालङ्कारे पृ० 512 श्लो० 120] वार्तिकालङ्कारे प्रतीपं शब्दवित् क्वचित्' इति पाठः // 1. “प्रत्यक्षं विशदज्ञानं मुख्य-संव्यवहारतः / " इति कारिकायाः स्वोपज्ञविवृतौ पाठोऽयमर्थतो विद्यते // 2. “अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः / " इति उत्तरार्धम् / /