Book Title: Yugpradhan Jinchandrasuri Charitam
Author(s): Bhanvarlal Nahta
Publisher: Abhaychand Seth
View full book text
________________
युयप्रधान श्री जिनचन्द्रसूरि चरितम्
बीकानेरं परित्यज्य मेडता ग़मन क्षणः । मन्त्रिणोस्या भवत्संवः साब्ध्यङ्ग ेन्दु वत्सरे । ६५॥ मेडतास्थित मन्त्रीशाकारणायामगमत्तदा । राणा श्री मानसिंहादिनृप पत्राणि भूरिशः ||६६ ॥ पुराऽपि साहिना मन्त्रि गुणग्रामः श्रुतः स्वयम् । दृष्टश्च राजनीत्यादौ महानिपुणतादिकः ह अमात्य प्रेषणायात्र रायसिंह नृपा परि । साही लाभपुरात्पत्रं प्रेषीत् स्वफुरमाणकम् ॥ ६८ रायसिंह नृपेणाऽपि प्रेषितं मन्त्रिणं प्रति । तत्र प्रगमनादेश पूर्वंतत्कुरमानकम् ||६|| स्वस्वामि रायसिंहाज्ञां प्राप्य मन्त्री शुभेक्षणे । विधायगमनं तस्माद्वजाश्वादि महर्द्धितः ॥ १००॥ श्री जिनदत्तसूरीणां निर्वाण भूमिस्पर्शनम् । पादुका दर्शनं कृत्वाऽजमेरौ मार्ग संस्थिते || १०१ || क्रमाल्लाभपुरे मन्त्री मिलितः साहिनं प्रति । तेनाऽपि मानसन्मान पूर्वमा भाषितश्चसः ॥ १०२ ॥ युक्तियुक्त वचो जालै मधुरैः समयोचितैः । साहिनो हृदयं चक्रे निजाधीनं सधीसखः ॥१०३॥
तं प्रत्य कबरः सम्राट् सहानुभूति सत्कृपे ।
बाढ़ प्रकटयन् चक्रे ध्यक्षं तंस्व सभासदाम् ॥ १०४ ॥ पुनस्तेन प्रसन्नेन श्री कर्मचन्द्र मन्त्रिणे । सुवर्णभूषणौ युक्तो हयश्च स्वगजोऽर्पितः । १०५॥
२८ ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9068b18205bef1fed6f3a2025c7bebabd09849da960e01fb7e8a75c77e651be5.jpg)
Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156