Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 2
________________ योगशास्त्रे चरणाङ्गुष्ठनिपीडितसुमेरुशिखरप्रकम्पमानमहीतलोल्लसितमरित्पतिक्षोभशशितब्रह्माण्डभाण्डोदरदर्शनप्रयुक्तावधिज्ञानज्ञातप्रभावातिशयविस्मितेन वास्तोष्पतिना नाम निर्ममे महावीरोऽयमिति । तत्पुनरनादिप्रभवप्ररूढप्रौढकम्म'समुन्मूलनबलेन यथार्थीकतञ्च भगवता । वईमान इति तु नाम मातरपितराभ्यां कृतम्। श्रमणो. देवार्य इति च जनपदेन । तस्मै नम इति सम्बन्धः । शेषाणि विशेषणानि । तैस्तु सद्भूतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते तत्र पूर्वाई नापायापगमातिशयः। अपायभूता हि रागादयस्तदपगमेन भगवतः स्वरूपलाभः । १। अर्हते इत्यनेन च सकलसुरासुरमनुजजनितपूजाप्रकर्षवाचिना पूजातिशयः । २ । योगिनाथायेत्यनेन तु ज्ञानातिशयः योगिनोऽवधिजिनादयस्तेषां नाथो विमलकेवलबलावलोकितलोकालोकस्वभावो भगवानेव ।। तायिने इत्यनेन तु वचनातिशयः । ४ । तायी सकलसुरासुरमनुजतिरश्चां पालकः। पालकत्वं च सकलभुवनाभयदानसमर्थसमग्रभाषापरिणामिधर्मदेशनाद्वारेण भगवत एव । पालकत्वमात्रं तु स्वापत्यार्थ्याघ्रादीनामपि सम्भवति । तदेवं चतुरतिशयप्रतिपादनबारेण भगवतो महावीरस्य पारमार्थिको स्तुतिरभिहितेति ॥ १॥ पुनर्योगगभी स्तुतिमाह (१) ख -अपनयन-। ___(२) ख म -सर्व-।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 202