Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 9
________________ प्रथमः प्रकाश:। इदं भगवतेन्द्राय प्रोक्तं शब्दानुशासनम् । उपाध्यायेन तच्छुत्वा लोकेष्वैन्द्रमितीरितम् ॥ ५८ ॥ मातापित्रोरनुरोधादष्टाविंशतिवत्सरीम् । कथञ्चिद्ग्रहवासेऽस्थाप्रव्रज्योत्कण्ठितः प्रभुः ॥ ५८ ॥ अथ पूर्णायुषोः पित्रोदेवभूयमुपेयुषोः । ईहाञ्चके परिव्रज्यां निरीही राज्यसम्पदः ॥ ६० ॥ भगवन्मा क्षते क्षारं क्षेप्सोरिति सगह्रदम् । भ्रात्रोत्वा ज्यायसा नन्दिवईनेनोपरोधितः ॥ ६१ ॥ भावतो यतिरवाहं नानाभरणभूषितः । कायोत्सर्ग श्रयंश्चिस्वशालिकायामवस्थितः ॥ १२ ॥ एषणीयप्रासुकाबपानवृत्तिमहामनाः । वर्षमेकं कथमपि भगवानत्यवाहयत् ॥ ६३ ॥ तीर्थं प्रवर्तयेत्यभ्यर्थितो लोकान्तिकामरैः । यथाकामीनमर्थिभ्यो दानं दातुं प्रचक्रमे ॥ ६४ ॥ हैतीयोकेन वर्षेण विनिर्मायानृणां भुवम् । औज्झट्राज्यश्रियं स्वामी मन्यमानस्तृणाय ताम् ॥ ६५ ॥ सर्देवनिकायैश्च कतनिष्क्रमणोत्सवः । सहस्रवाह्यामारुह्य शिबौं चन्द्रप्रभाभिधाम् ॥ ६६ ॥ ज्ञातखण्ड वने गत्वा सर्वसावद्यवर्जनात् । प्रव्रज्यामग्रहीदहशतुर्थप्रहरे प्रभुः ॥ ६७ ॥ जगन्मनोगतान् भावान् प्रकाशयदथ प्रभोः । नानं तुरीयं संजने मनःपर्ययसंज्ञकम् ॥ ६८ ..

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 202