Book Title: Yogshastra Part 01
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 8
________________ योगशास्त्रे जिग्ये भगवता तत्र कृतश्चासीदयं पणः | जयेद्यइह स ह्यन्यान् पृष्ठमारुह्य वाहयेत् ॥ ४८ ॥ आरुह्यावाहयद्दाहानिव वीरः कुमारकान् । आरुरोह सुरस्यापि पृष्ठं पृष्ठो महौजसाम् ॥ ४८ ॥ ततः करालं वेतालरूपमाधाय दुष्टधीः । भूधरानप्यधरयन् प्रारब्धो वर्द्धितुं सुरः ॥ ५० ॥ वक्त्रे पातालकल्पेऽस्य जिह्वया तक्षकायितम् । पिङ्गैस्तुङ्गे शिरःशैले केशैर्दावानलायितम् ॥ ५१ ॥ तस्यातिदारुणे दंष्ट्रे अभूतां क्रकचाकृती । जाज्वल्यमाने अङ्गारशकट्याविव लोचने ॥ ५२ ॥ घोणारन्ध्रे महाघोरे महोधरगुहे इव | भृकुटीभङ्गुरे भीमे महोरग्याविव भ्रुवौ ॥ ५३ ॥ व्यरंसोद्दर्द्धनान्नासौ यावत्तावन्महौजसा । आहत्य मुष्टिना पृष्ठे स्वामिना वामनौक्कतः ॥ ५४ ॥ एवं च भगवद्धैर्यं' साक्षात् क्वत्येन्द्रवर्णितम् । प्रभुं नत्वात्मरूपेण निजं धाम जगाम सः ॥ ५५ ॥ मातापितृभ्यामन्येद्युः प्रारब्धेऽध्यापनोत्सवे । सर्व्वज्ञस्य शिष्यत्व मितोन्द्र स्तमुपास्थितः ॥ ५६ ॥ उपाध्यायासने तस्मिन्वासवेनोपवेशितः । प्रणम्य प्रार्थितः स्वामी शब्दपारायणं जगौ ॥ ५७ ॥ (१) क घ ङ वीर्यं । (२) क घ ङ -त्वे ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 202