Book Title: Yogshastra Part 01 Author(s): Hemchandracharya, Vijaydharmsuri Publisher: Asiatic Society of Bengal View full book textPage 4
________________ योगशास्त्रे की । ... अथ जन्माभिषेकाय कृत्वोत्सङ्गे जगत्प्रभुम् । मेरुमूट्टि सुधर्मेन्द्रः सिंहासनमशिश्रियत् ॥ ७॥ इयन्तं वारिसम्भारं कथं स्वामी सहिष्यते । इत्याशशङ्ख, शक्रेण भक्तिकोमलचेतसा ॥ ८ ॥ तदाशङ्कानिरासाय लीलया परमेश्वरः । मेरुशैलं वामपादाङ्गुष्ठाग्रेण न्यपीडयत् ॥ ८॥ शिरांसि मेरोरनमन्नमस्कर्तुमिव प्रभुम् । तदन्तिक मिवायातमचलंश्च कुलाचलाः ॥ १० ॥ अतुच्छमुच्छलन्तिस्म मात्रं कर्तुमिवार्मवाः । विवेपे सत्वरं तत्र नर्तनाभिमुखेव भूः ॥ ११ ॥ किमेतदिति सञ्चिन्त्यावधिज्ञानप्रयोगतः । । लोलायितं भगवतो विदाञ्चक्रे बिडोजसा ॥ १२ ॥ वामिन्ननन्यसामान्यं सामान्यो मादृशो जनः । विदाङ्करोतु माहात्मा कथङ्कारं तवेदृशम् ॥ १३ ॥ तन्मिथ्यादुष्कृतं भूयाच्चिन्तितं यन्मयाऽन्यथा । इतीन्द्रेण ब्रुवाणन प्रणेमे परमेश्वरः ॥ १४ ॥ सानन्दं वादितातोद्यं चक्रे शक्रजंगगुरोः । तीर्थगन्धोदकैः पुण्यैरभिषेकमहोत्सवः ॥ १५ ॥ अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववन्दिर मुहुः सर्वाङ्गीणं च परिचिक्षिपुः ॥ १६ ॥ प्रभुमात्रजलालोढा वन्दनीया मृदप्यभूत् । गुरूणां किल संसर्गागौरवं स्याल्लघोरपि ॥ १७ ॥ नांगेरामाPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 202