Book Title: Vyakhyan Sahitya Sangraha Part 02
Author(s): Vinayvijay
Publisher: Devchand Damji Sheth
View full book text
________________
मालपाया.
૫૯૭ સ્થાનકવાસી મુનિશ્રીઓ તરફથી મળેલમાં વધારે.
(५ ५७५ मा gl). ___*॥ श्रीमन्महावीराय नमः ॥ व्याख्यानसाहित्यसंग्रहनामधेयं पुस्तकमेतदृष्ट्वा स्वमनीषाचक्षुषा प्रमोदसन्दोहः सञ्जातो मम । अयि ! स्वपरराद्धांतहृदयावलोकनेन निष्पक्षपातत्वेन निर्भयत्वेन च स्वशेमुषीगम्यविचित्रतन्त्राद्युद्धृतानेकविषयकामवद्यगद्यपद्यसूक्तिमौक्तिककद्म्बकस्वच्छाच्छप्रत्यक्षाक्षमालां गुम्फित्वा व्याख्यातॄणां कण्ठमलञ्चक्रे विनयविजयविभूषित निरवद्यसद्यःफलात्मकसुविद्याधियोभिः श्रीविनयविजयः। अस्मिन् नैर्ग्रन्थीये ग्रन्थे षड्परिच्छेदावच्छेदके चित्रिताभिरुचिवतां सतां विविधबोधसम्प्राप्ति|भविष्यति च । व्याख्यानकर्तृणामयं ग्रन्थोऽतिशयोपयोगीति तथ्यम् । अथ चैतद्ग्रन्थविवेचकैः पवित्रतन्त्रोदधिं स्वकीयशुद्धधिषणामन्थानकेन प्रमथ्य सम्प्राप्तयथेष्टशिष्टत्वादिसम्पादकानेकविषयसुन्दरमणिवृन्दं समर्पितं विबुधानाम् । सत्यमेवेदमुदारचरितानां पूतं कर्त्तव्यं संघटते । तदेवानेकशास्त्रपरिशीलनफलं च । प्रायोऽस्य ग्रन्थस्य षड्परिच्छेदस्थानेकविषया विचारणीयाः सन्ति तथापि कतिपयाः परमाहद्भक्तित्वसन्निग्रन्थत्वयतिशासनत्वात्म ज्ञानत्वाज्ञाभङ्गत्वोत्सूत्रप्ररूपकत्वादिविषया वाचनमनननिदिध्यासनत्वद्वारेण सादरं सुविमर्शनीया अदरणीयाश्च । एतद्ग्रन्थविवेचकानां कोविदानां मुनिमहोदयानां श्रीविनयविजयानामुपरि सञ्जायते सम्प्रमोदः । तद्धर्षनिर्भररभसानेकशः धन्यवादं समर्पयाम्यहं मुनिदेवचन्द्रः ।
कच्छाष्टकोटि बृहत्पक्ष संस्थितजैनमुनि देवचन्द्रः कच्छ-वागडप्रान्तस्थ,
चित्रकूट (चीतोड) स्थः ।
સૂચના–અમો આ ગ્રંથમાં ફક્ત ૬૫ સર્ટીફીકેટ બહાર મેલી શક્યા છીએ અને
બીજાં સંખ્યાબંધ શ્રેષ્ઠ રત્નસરખાં સટીફીકેટ અમારી પાસે હાજર છે પણ સ્થાનસંકોચને લીધે મેલી શક્યા નથી તે હવે કોઈ બીજે પ્રસંગે અથવા આ ગ્રંથના ત્રીજા ભાગને અંતે છપાવી સાહિત્ય પ્રેમી નરરત્નની સન્મુખ રજુ કરીશું.
अश..
.
.
.

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640