Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 260
________________ द्वितीयः स्तबकः । इह दुरधिगमैः किञ्चिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम ॥ अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥ इति भारवो । उत्पलिनीति केचित् । सजसा सगौ च कथितः कलहंसः ॥७॥ यमुनाविहारकुतुके कलहंसो - व्रजकामिनीकमलिनीकृतकेलिः॥ जनचित्तहारिकलकण्ठनिनादः प्रमदं तनोतु तव नन्दतनूजः ॥ सिंहनादः क्वापि । सजसौ जगौ च भवति प्रबोधिता ॥ ८॥ शयिता मृषा चटुलमाननिद्रया रतिकेलिकुअनिलये विलासिनी ॥ मुरवैरिणा वदनचुम्बनादिना स्मितमातततान सपदि प्रबोधिता ॥ भवति मृगेन्द्रमुखं नजौ जरौ गः ॥९॥ गुरुभुजवीर्यभरं हरिं मदान्धा युधि समुपेत्य न दानवा जिजीवुः ॥ क्षुधितमृगेन्द्रमुखं मृगा उपेत्य क्व नु खलु बिभ्रति जीवनस्य योगम् ॥ - (१४) शर्करी । (चतुर्दशाक्षरा वृत्तिः ।) मो गौ नौ मश्वेच्छरनवभिरसम्बाधा ॥ १ ॥ वीर्याग्नौ येन ज्वलति रणवशाक्षिप्ते दैत्येन्द्र जाता धरणिरियमसम्बाधा ॥ धर्मस्थित्यर्थं प्रकटिततनुसम्बन्धः साधूनां बाधां प्रशमयतु स कंसारिः॥ ज्ञेयं वसन्ततिलकं तभजा जगौ गः ॥२॥ फुल्लं वसन्ततिलकं तिलकं वनाल्या लीलापरं पिककुलं कलमत्र रौति ॥ वात्येष पुष्पसुरभिर्मलयाद्रिवातो यातो हरिः स मधुरां विधिना हताः स्मः॥

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306