Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 274
________________ चतुर्थः स्तबकः । चतुर्थः स्तबकः । प्रथमे सौ यदि सौ च नसजगुरु काण्यनन्तरम् ॥ यद्यथ भनभगाः स्युरथो सजसा जगौ च भवतीयमुद्गता ॥ १ ॥ विललास गोपरमणीषु तरणितनया प्रभोद्गता ॥ कृष्णनयनच कोरयुगे दधती सुधांशुकिरणोर्मिविभ्रमम् ॥ प्रथमे सजौ यदि सलौ च नसजगुरु काण्यनन्तरम् ॥ यद्यथ भनजलगाः स्युरथो सजसा जगौ च भवतीयमुद्गत। ॥ २ ॥ अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ॥ क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ॥ इति भारवाबुद्वताभेदः ॥ त्रयमुद्गतासदृशमेव पदमिह तृतीयमन्यथा ॥ जायते रनभगैर्ग्रथितं कथयन्ति सौरभमिदं तदीदृशम् || ३ || परिभूतफुल्लशतपत्र वनविसृतगन्धविभ्रमा । कस्य हृन्न हरतीह हरे ! मुखपद्मसौरभकला तवाद्भुता ॥ नयुगं सकारयुगलं च भवति यदि चेत्तृतीयके ॥ तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य सकलं यथोद्गता ॥ ४ ॥ व्रजसुन्दरीसमुदयेन मुदितमनसा स्म पीयते । हिमकरगलितमिवामृतकं ललितं मुरारिमुखचन्द्र विद्रुतम् ॥ भवत्यर्धसमं वक्तं विषमं च कदाचन ॥ तयोर्द्वयोरुपान्तेऽत्र छन्दस्तदधुनोच्यते ॥ ३१ २४१

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306