Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 291
________________ २५८ सुवृत्ततिलकम् । मन्थरैर्यथा भद्देन्दुराजस्य--- गुणपरिचयस्तीर्थे वासः स्थिरोभयपक्षता ___वपुरतिदृढं वृत्तं सम्यक्सखे ! तव किं पुनः ॥ सरति सुमते यस्त्वां पातुं दृशा विनिमेषया बडिश विषमं तस्याक्षेपं करोषि सहासुभिः ॥ त्रिषु पादेषु विश्रान्तविलासैललिता पदैः ॥ अन्ते तरङ्गितगतिहरिणी हारिणी तराम् ॥ ३० ॥ यथास्यैव-- उपपरिसरं गोदावर्याः परित्यजताध्वगाः ! सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् ॥ इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदश्चन्नवाकुरकञ्चुकः ॥ शिखरिण्याः समारोहात्सहजैवौजसः स्थितिः॥ सैव लुप्तविसर्गान्तैः प्रयात्यत्यन्तमुन्नतिम् ॥ ३१ ॥ यथा मुक्ताकणस्य-- यथा रन्ध्र व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः ॥ यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥ विपरीता यथा भदृश्यामलस्य-- धृतो गण्डाभोगे मधुप इव बद्धोऽब्जविवरे विलासिन्या मुक्तो बकुलतरुमापुष्पयति यः ॥ विलासो नेत्राणां तरुणसहकारप्रियसखः ___स गण्डूषः सीधोः कथमिव शिरः प्राप्स्यति मधोः ॥ शिखरिण्याः पदैश्छिन्नः स्वरूपं परिहीयते ॥ मुक्तालताया निःसूत्रमुक्तैर्मुक्ताफलैरिव ॥ ३२॥ यथा भट्टभवभूतेः असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् ॥ अदर्प कन्दर्प जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ श्लोकेऽस्मिन्सचमत्कारसरसास्वादशालिनि ॥ केवलं शिखरिण्यैव स्वरूपमपहारितम् ॥ ३३ ॥

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306