________________
चतुर्थः स्तबकः ।
चतुर्थः स्तबकः ।
प्रथमे सौ यदि सौ च नसजगुरु काण्यनन्तरम् ॥ यद्यथ भनभगाः स्युरथो
सजसा जगौ च भवतीयमुद्गता ॥ १ ॥ विललास गोपरमणीषु तरणितनया प्रभोद्गता ॥ कृष्णनयनच कोरयुगे दधती सुधांशुकिरणोर्मिविभ्रमम् ॥ प्रथमे सजौ यदि सलौ च
नसजगुरु काण्यनन्तरम् ॥
यद्यथ भनजलगाः स्युरथो
सजसा जगौ च भवतीयमुद्गत। ॥ २ ॥ अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ॥ क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ॥
इति भारवाबुद्वताभेदः ॥
त्रयमुद्गतासदृशमेव पदमिह तृतीयमन्यथा ॥
जायते रनभगैर्ग्रथितं
कथयन्ति सौरभमिदं तदीदृशम् || ३ ||
परिभूतफुल्लशतपत्र वनविसृतगन्धविभ्रमा । कस्य हृन्न हरतीह हरे ! मुखपद्मसौरभकला तवाद्भुता ॥
नयुगं सकारयुगलं च भवति यदि चेत्तृतीयके ॥
तदुदितमुरुमतिभिर्ललितं
यदि शेषमस्य सकलं यथोद्गता ॥ ४ ॥
व्रजसुन्दरीसमुदयेन मुदितमनसा स्म पीयते । हिमकरगलितमिवामृतकं ललितं मुरारिमुखचन्द्र विद्रुतम् ॥ भवत्यर्धसमं वक्तं विषमं च कदाचन ॥ तयोर्द्वयोरुपान्तेऽत्र छन्दस्तदधुनोच्यते ॥
३१
२४१