SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ छन्दोमञ्जर्याम् वक्रं युग्भ्यां मगौ स्यातामन्धेर्योऽनुष्टुभि ख्यातम् ॥ ५ ॥ अत्रापि द्विरावृत्त्या श्लोकः पूरयितव्यः । - २४२ वक्ताम्भोजं सदा स्मे ं चक्षुर्नीलोत्पलं फुल्लम् । बल्लवीनां मुरारातेश्चेतोभृङ्गं जहारोच्चैः ॥ युजोश्चतुर्थतो जेन पथ्यावक्त्रं प्रकीर्तितम् ॥ ६ ॥ रासकेलिसतृष्णस्य कृष्णस्य मधुवासरे । श्रासीद्रोपमृगाक्षीणां पथ्या वक्तमधुस्रुतिः ॥ पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ॥ गुरु षष्ठं च पादानां शेषेष्वनियमो मतः ॥ ७ ॥ प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वक्तू लक्षणम् ॥ लोकेऽनुष्टु बिति ख्यातं तस्याष्टाक्षरता कृता ॥ ८ ॥ इति छन्दोमञ्जर्यं विषमवृत्ताख्यश्चतुर्थः स्तबकः । पञ्चमः स्तबकः । अथार्या । लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ॥ षष्ठो जश्च नलघु वा प्रथमार्धे नियतमार्यायाः ॥ १ ॥ षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ॥ चरमे पञ्चमके तस्मादिह भवति षष्ठो लः ॥ २ ॥ कृष्णः शिशुः सुतो मे बल्लवकुलटाभिराहृतो न गृहे । क्षणमपि वसत्य साविति जगाद गोष्ट्यां यशोदार्या ॥ वृन्दावने सलीलं वल्गुदुमकाण्डनिहिततनुयष्टिः । स्मेरमुखार्पितवेणुः कृष्णो यदि मनसि कः स्वर्गः ॥ पथ्या विपुला चपला मुखचपला जघनचपला च ॥ गीत्युपगीत्युद्गीतय आर्यागीतिश्च नवधाऽऽर्या ॥ ३ ॥ प्रथमगणत्रयविरतिर्दलयोरुभयोः प्रकीर्तिता पथ्या । जय जय जगदीश ! विभा ! केशव ! कंसान्त ! माधवानन्त ! | कुरु करुणामिति भणितिः पथ्या भवरोगदुःस्थानाम् ॥ संलङ्घय गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः ||४||
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy