Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 279
________________ महाकविश्रीक्षेमेन्द्रकृतं सवृत्ततिलकम् । प्रथमो विन्यासः । भणपतिगुरोर्वक्रश्चूडाशशाङ्ककलाङ्करः स्फुटफणिफणारत्नच्छायाछटाछुरणारुणः ॥ गिरिपतिसुतासंसक्ताविलासकचग्रह च्युतनखशिखालेखाकान्तस्तनोतु सुखानि वः॥१॥ स्वच्छन्दलघुरूपाय त्रिजगद्गुरवे नमः ॥ स्पष्टवामनवृत्ताय मायावक्राय चक्रिणे ॥२॥ नमश्छन्दोनिधानाय सुवृत्ताचारवेधसे ॥ तपःसत्यनिवासाय व्यासायामिततेजसे ॥ ३ ॥ क्षेमेन्द्रेण सुशिष्याणां सरस्वत्याः प्रसाधनम् ॥ सुवृत्ततिलकं वर्णरुचिरं क्रियते मुखे ॥ ४॥ दृष्ट्वा छन्दांसि सौन्दर्य विचार्यायप्रियः कृतः ॥ प्रसिद्धकान्यकर्मण्यवृत्तानामेष सङ्गहः ॥५॥ दोघे संयोगपूर्व च गुरुसंज्ञा प्रकीर्तिता ॥ असंयोगग्रहं ह्रस्वं लघुसंशं प्रकीर्तितम् ॥ ६॥ त्रिगुरुः प्राग्गुरुर्मध्यगुरुरन्तगुरुस्तथा ॥ त्रिलघुः प्राग्लधुर्मध्यलघुरन्तलघुस्तथा ॥ ७ ॥ मभजाः सनया रेफतकारौ चेति संशिताः ॥ शेयो लघुर्लकारोऽत्र गकारश्च गुरुर्मतः ॥ ८॥ (युग्मम् ) क्वचिद्विक्षिप्तसंस्थानः क्वचिदेकपदस्थितैः ॥ संयोगस्थैः क्वचिहत्तमुदाहरणमक्षरैः ॥ ६ ॥ पूर्वाक्षरद्वयासक्तविरामेण षडक्षरा ॥ तकारेण यकारेण तनुमभ्याऽभिधीयते ॥१०॥ यथा मम-- तेन प्रविभक्ता कामं वयसा सा ॥ येन प्रविलासं धत्ते तनुमध्या ॥

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306