Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 283
________________ २५० सुवृत्ततिलकम् । यथा मम निजभुजजैविशालगुणविक्रमकीर्तिभरैः प्रविदधता सुधांशुधवलं भवता भुवनम् ॥ कथय कथं कृतेयमतिरागवती जनता चरितमपूर्वमेव तव कस्य न नर्कुटकृत् ॥ जसजैः सयलैर्गेन युताष्टनवसंहतिः ।। दशसप्ताक्षरा पृथ्वी कथिता वृत्तवेदिभिः ।। ३२ ।। यथा ममजवात्स रजसा युतः श्रमविसंस्थुलाङ्गः पथा व्रजन्सततसेवकः पिशुनधाम वेश्म प्रभोः ॥ कदाचिदवलोकनैः फलविवर्जितैर्मन्यते ___ जडः करसमर्पितामिव मदेन पृथ्वीमिमाम् ॥ नसमै रसलैर्गेन युक्ता सप्तदशाक्षरा॥ विच्छिन्ना हरिणी षड्भिश्चतुर्भिः सप्तभिस्तथा ।। ३३ ।। यथा मम'न समरसनाः काले भोगाश्चलं धनयौवनं कुरुत सुकृतं यावन्नेयं तनुः प्रविशीयते ॥ किमपि कलना कालस्येयं प्रधावति सत्वरा ___ तरुणहरिणी सन्त्रस्तेव प्लवप्रविसारिणी ॥ यमनैः समलैर्गेन युक्ता सप्तदशाक्षरा॥ षडेकादशविच्छेदवती शिखरिणी मता ॥ ३४ ॥ यथा मम यथा मन्युर्लीनः स च विभवमग्नः स्मरमद स्तथा जाने जाता शमसमयरम्या परिणतिः ॥ इदानीं संसारव्यतिकरहरा तीव्रतपसे विविक्ता युक्ता मे गिरिवरमही सा शिखरिणी ॥ चतुःषट्सप्तविरतिर्वृत्तं सप्तदशाक्षरम् ॥ मन्दाक्रान्ता मभनतेस्तगगैश्चाभिधीयते ॥ ३५ ॥ यथा मममध्येभङ्गीवलनविततापाङ्गसंसङ्गभाजः स्मर्यन्ते ते यदि धृतिमुषः पक्ष्मलाक्षीकटाक्षाः ॥ तत्किं मिथ्या नियमनिभृतैः कानने धीयते धी मन्दाक्रान्ता दशति निशिता पन्नगी पाणिसक्ता ॥

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306