Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta
View full book text
________________
२३६
छन्दोमञ्जर्याम्
करतालचञ्चलकङ्कणस्वन मिश्रणेन मनोरमा रमणीय वेणु निनादरङ्गिमसङ्गमेन सुखावहा ॥ बहुलानुरागनिवासरास समुद्भवा तव रागिणं विदधौ हरिं खलु वल्लवीजनचारुचामरगीतिका ॥
इति महाकाव्ये । वृत्तमीदृशं तु नामतो रजौ रजौ रजौ गुरुर्लघु || ३ ||
चित्रवृत्ति लीलया निसर्गरम्यदेहरूपविभ्रमेण
राजमान सद्वयोर्विलाससम्पदा कलाकुतूहलेन ॥ यः समं व्रजाङ्गनाजनैः सुराङ्गनानिभैः सुखं समेत्य विष्णुरुललास चित्तपद्म कोषषट्पदः स मे सदास्तु ॥ रसाश्वाश्वैः शोभा नयुगग जठरा मेघविस्फूर्जिता चेत् ॥ ४ ॥ सदा पूषन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां
तयोरूर्ध्वं राजत्तरलकिसलयाश्लिष्टसु स्निग्धशाखा || लसन्मुक्तारक्तोत्पलकुवलयवच्चन्द्रविम्बाञ्चिताया
मह शोभा मौलौ मिलदलिपटलैः कृष्ण ! सा कापि वल्ली ॥ (२१) प्रकृतिः । ( एकविंशत्यक्षरा वृत्तिः । )
नैनां त्रयेण त्रिमुनियतियुता सूग्धरा कीर्तितेयम् ॥ १ ॥ व्याकोषेन्दीवराभा कनककषलसत्पीतवासाः सुहासा चन्द्रकान्तैर्वलयितचिकुरा चारुकर्णावतंसा ॥
श्रंसव्यासक्तवंशीध्वनिसु खितजगद्बल्लवोभिर्लसन्ती
मूर्तिर्गोपस्य विष्णोरवतु जगति नः स्रग्धरा हारिहारा ॥
नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः || २ || चिकुरकलापशैवलकृतप्रमदासु लसद्रसोर्मिषु
स्फुटवदनाम्बुजासु विलस भुजबाल मृणालवल्लिषु ॥ कुचयुगचक्रवाक मिथुनानुगतासु- कलाकुतूहली
व्यरचयदच्युतो व्रजमृगीनयनासरसीषु विभ्रमम् ॥ तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ॥ परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय
चिरगलितश्रियो जलनिधेश्च तदाऽभवदन्तरं महत् ॥
इति माघे ।

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306