________________
२३६
छन्दोमञ्जर्याम्
करतालचञ्चलकङ्कणस्वन मिश्रणेन मनोरमा रमणीय वेणु निनादरङ्गिमसङ्गमेन सुखावहा ॥ बहुलानुरागनिवासरास समुद्भवा तव रागिणं विदधौ हरिं खलु वल्लवीजनचारुचामरगीतिका ॥
इति महाकाव्ये । वृत्तमीदृशं तु नामतो रजौ रजौ रजौ गुरुर्लघु || ३ ||
चित्रवृत्ति लीलया निसर्गरम्यदेहरूपविभ्रमेण
राजमान सद्वयोर्विलाससम्पदा कलाकुतूहलेन ॥ यः समं व्रजाङ्गनाजनैः सुराङ्गनानिभैः सुखं समेत्य विष्णुरुललास चित्तपद्म कोषषट्पदः स मे सदास्तु ॥ रसाश्वाश्वैः शोभा नयुगग जठरा मेघविस्फूर्जिता चेत् ॥ ४ ॥ सदा पूषन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां
तयोरूर्ध्वं राजत्तरलकिसलयाश्लिष्टसु स्निग्धशाखा || लसन्मुक्तारक्तोत्पलकुवलयवच्चन्द्रविम्बाञ्चिताया
मह शोभा मौलौ मिलदलिपटलैः कृष्ण ! सा कापि वल्ली ॥ (२१) प्रकृतिः । ( एकविंशत्यक्षरा वृत्तिः । )
नैनां त्रयेण त्रिमुनियतियुता सूग्धरा कीर्तितेयम् ॥ १ ॥ व्याकोषेन्दीवराभा कनककषलसत्पीतवासाः सुहासा चन्द्रकान्तैर्वलयितचिकुरा चारुकर्णावतंसा ॥
श्रंसव्यासक्तवंशीध्वनिसु खितजगद्बल्लवोभिर्लसन्ती
मूर्तिर्गोपस्य विष्णोरवतु जगति नः स्रग्धरा हारिहारा ॥
नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः || २ || चिकुरकलापशैवलकृतप्रमदासु लसद्रसोर्मिषु
स्फुटवदनाम्बुजासु विलस भुजबाल मृणालवल्लिषु ॥ कुचयुगचक्रवाक मिथुनानुगतासु- कलाकुतूहली
व्यरचयदच्युतो व्रजमृगीनयनासरसीषु विभ्रमम् ॥ तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ॥ परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय
चिरगलितश्रियो जलनिधेश्च तदाऽभवदन्तरं महत् ॥
इति माघे ।