SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तबकः । उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः कुहूकराठी कण्ठीरवरवलवत्रासितप्रोषितेभाः ॥ श्रमी चैत्र मैत्रावरुणितरुणीकेलिकङके लिमल्लीचलल्ली हल्ली सकसुरभयश्चण्डि चञ्चन्ति वाताः ॥ इति कस्यचित् । भवेत्सैव च्छाया तयुगगयुता स्याद्वादशान्ते यदा ॥ २ ॥ श्रभीष्टं जुष्टो यो वितरति लसद्दोश्चारुशाखोज्ज्वलः स्फुरन्नानारत्नस्तव किततनुश्चित्रांशुकालम्बितः ॥ न यस्याश्छायामुपगतवतां संसारती व्रातप स्तनोति प्रोत्तापं जयति जगतां कंसारिकल्पद्रुमः ॥ सूर्याश्वैर्याद मः सजौ सतनगाः शार्दूलविक्रीडितम् ॥ ३ ॥ गोविन्दं प्रणमोत्तमाङ्ग ! रसने ! तं घोषयाहर्निशं २३५ पाणी ! पूजयतं मनः ! स्मर पदे ! तस्यालयं गच्छतम् ॥ एवं चेत्कुरुताखिलं मम हितं शीर्षादयस्तद् ध्रुवं न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ॥ नौ यो नो गुरुत्स्वरमुनिकरणैराहं सुरसाम् ॥ ४ ॥ कामक्रीडासतृष्णो मधुसमयसमारम्भरभसा कालिन्दीकूलकु विहरणकुतुकाकृष्टहृदयः ॥ गोविन्दो बल्लवीनामधररससुधां प्राप्य सुरसां शङ्के पीयूषपानः प्रचयकृतसुखं व्यस्मरदसौ । मो गौ नौ तौ गौ स्वरहयतुरगैः फुल्लदाम प्रसिद्धम् ॥ ५ ॥ शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं हृप्यश्चेतोभिस्त्रिदिववसतिभिर्व्योमसंस्थैर्विमुक्तम् ॥ मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं मौलौ दैत्यार्न्यपतदनुपमं स्वस्तरोः फुल्लदाम ॥ (२०) कृतिः । (विंशत्यक्षरा वृत्तिः । ) ज्ञेया सप्ताश्वषाभिर्मरभनययुता भ्लौ गः सुवदना ॥ १ ॥ प्रत्याहृत्येन्द्रियाणि त्वदितरविषयान्नासाग्रनयना त्वां ध्यायन्ती निकुञ्जे परतरपुरुषं हर्षोत्थपुलका ॥ श्रानन्दाश्रुलताक्षी वसति सुवदना योगेकर सिका कामार्तिं त्यक्तुकामा ननु नरकरिपो ! राधा मम सखी ॥ सजजा भरौ सलगा यदा कथिता तदा खलु गीतिका ॥ २ ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy