SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तबकः । इह दुरधिगमैः किञ्चिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम ॥ अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥ इति भारवो । उत्पलिनीति केचित् । सजसा सगौ च कथितः कलहंसः ॥७॥ यमुनाविहारकुतुके कलहंसो - व्रजकामिनीकमलिनीकृतकेलिः॥ जनचित्तहारिकलकण्ठनिनादः प्रमदं तनोतु तव नन्दतनूजः ॥ सिंहनादः क्वापि । सजसौ जगौ च भवति प्रबोधिता ॥ ८॥ शयिता मृषा चटुलमाननिद्रया रतिकेलिकुअनिलये विलासिनी ॥ मुरवैरिणा वदनचुम्बनादिना स्मितमातततान सपदि प्रबोधिता ॥ भवति मृगेन्द्रमुखं नजौ जरौ गः ॥९॥ गुरुभुजवीर्यभरं हरिं मदान्धा युधि समुपेत्य न दानवा जिजीवुः ॥ क्षुधितमृगेन्द्रमुखं मृगा उपेत्य क्व नु खलु बिभ्रति जीवनस्य योगम् ॥ - (१४) शर्करी । (चतुर्दशाक्षरा वृत्तिः ।) मो गौ नौ मश्वेच्छरनवभिरसम्बाधा ॥ १ ॥ वीर्याग्नौ येन ज्वलति रणवशाक्षिप्ते दैत्येन्द्र जाता धरणिरियमसम्बाधा ॥ धर्मस्थित्यर्थं प्रकटिततनुसम्बन्धः साधूनां बाधां प्रशमयतु स कंसारिः॥ ज्ञेयं वसन्ततिलकं तभजा जगौ गः ॥२॥ फुल्लं वसन्ततिलकं तिलकं वनाल्या लीलापरं पिककुलं कलमत्र रौति ॥ वात्येष पुष्पसुरभिर्मलयाद्रिवातो यातो हरिः स मधुरां विधिना हताः स्मः॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy