________________
२२६
छन्दोमअर्याम्समीरणोल्लसितलतान्तरालगो
यथा मरुत्तरलतमालभूरुहः ॥ अभून्नपो विबुधसखः परन्तपः
श्रुतान्वयो दशरथ इत्युदाहृतः ॥ गुणैर्वरं भुवनहितच्छलेन यं
_सनातनः पितरमुपागमत्स्वयम् ॥ इति भट्टौ । वैदै रन्धैम्तौ यसगा मत्तमयूरम् ॥ ३ ॥ लीलानुत्यन्मत्तमयूरध्वनिकान्तं
नृत्यन्नीपामोदिपयोदानिलरम्यम् ॥ रासक्रीडाकृष्टमना गोपवधूभिः
कंसध्वंसी निर्जनवृन्दावनमाप ॥ हा तातेति क्रन्दितमाकर्ण्य विषण्ण
स्तस्यान्विष्यन्वेतसगूढ प्रभवं सः॥ शल्यशोतं वीक्ष्य सकुम्भं मुनिपुत्रं
तापादन्तःशल्य इवासीक्षितिपोऽपि ॥ इति रघौ । नयुगलसयुगलगैरिति चण्डी ॥४॥ जयति दितिजरिपुताण्डवलीला
कुपितकवलकरकालियमौलौ ॥ चरणकमलयुगचापलचण्डी
पदनखरुचिजितभोगमणिश्रीः ॥ सजसौ जगौ च यदि मञ्जुभाषिणी ॥५॥ अमृतोमिशीतलकरण लालयं
स्तनुकान्तिरोचितविलोचनो हरे॥ नियतं कलानिधिरसीति बल्लवी - मुदमच्युते व्यधित मजुभाषिणी ॥
सुनन्दिनीति शम्भौ ॥ ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥६॥
शरदमृतरुवश्चन्द्रिकाक्षालिते
दिनकरतनयातीरदेशे हरिः॥ विहरति रभसादल्लवीभिः समं
त्रिदिवयुपतिभिः कोऽपि देवो यथा ॥