Book Title: Visheshavashyak Bhashyam Purvarddha
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 6
________________ PRASA विशेषाव: * पीठिका कोव्याचार्य वृत्तौ // 2 // // 2 // वस्तुनि प्रवृत्तिमादधानाः सन्तः इष्टदेवतानमस्कारपुरःसरां प्रवृत्तिमादधतीत्यतः शिष्टसमयपरिपालनार्थ, तथाऽयमनन्तातिपरमकल्याणतयाऽतीव श्रेयान , श्रेयांसि च बहुविनानि भवन्ति, "श्रेयांसि बहुविनानि, भवन्ति महतामपि / अश्रेयसि प्रवृत्तानां, कापि यान्ति विनायकाः॥१॥" इति वचनात, अत एतदुपशान्तये मङ्गलार्थ, तथा निरमिधेयं काकदन्तपरीक्षावदनादरणीयं स्यादित्यतोऽमि|घेयवत्ताप्रतिपादनार्थ च॥ तत्राद्यपादेन इष्टदेवतानमस्कारं विघ्नोपशमंचोचुः। अत्र कश्चिद् चोद्यचक्षुश्रुचोदयिषुराह-कुतः पुनरिह प्रवचन| मेवेष्टदेवता, येनोक्तं 'कयपवयणप्पणामो' इति, ननूच्यता कयअरिहंतपणामों' इत्येवमादि, उच्यते, प्रायः प्रवचनोपदेशेनैवाग्दिर्शिमिर्विवक्षितगुणोपेताहदादिपञ्चकनमस्कार्यस्य संप्रज्ञायमानत्वात् / पुनरप्याह-एवं नामैतद्विघ्नोपशमस्तहिं कथमस्मादिति, प्रवचनस्य श्रुतदेवतारूपत्वात् , तममस्कृतौ च विनप्रणाशात, उक्तं च-'न नाम किञ्चिदसाध्य गुणवद्देवताप्रसादस्य' इत्येवमादि / शेषपादैस्तु प्रायोऽभिधेयमाहुरिति समुदायार्थः। साम्पतमवयवार्थः प्रतायते-तत्र 'वोच्छ मिति क्रिया 'वोच्छं' वक्ष्ये, अभिधास्ये इत्युक्तं भवति, किमित्यत आह-आवस्सयाणुओगं' ति अवश्यं कर्त्तव्यमावश्यकं, शानदर्शनचारित्रप्रसाधकप्रतिनियतकालानुष्ठेययोगपरम्पराप्रतिसेवनमित्यर्थः, एतदुक्तं भवति-मुखवत्रिकाप्रत्युपेक्षणादारभ्य सकलाहोरात्रान्ताप्यसपत्नकर्त्तव्यतोक्तचक्रवालसामाचार्याचरणमावश्यकमभिधीयते, अनुयोगो-वक्ष्यमाणशब्दार्थोऽर्थान्वाख्यानं वा, विधिप्रतिषेधाभ्यां प्ररूपणमित्यर्थः, आवश्यकस्यानुयोगः आवश्यकानुयोगस्तम्, किंविशिष्टः सन् ? इत्यत आह-'कयपवयणप्पणामो चि कृतो-विहितो, निर्वर्तित इत्यर्थः, प्रवचनमुपदेशोऽर्हदूचनमितियावत्, प्रोच्यन्ते अनेनास्मादस्मिन् वा जीवादय इति प्रवचनम्, अथवा प्रगतं प्रधान प्रशस्तमादौ वा वचनं प्रवचनम् , 1 °नुष्ठालयोग. 2 °सामाचारीसमाच 3 न्याख्यानो विधि CACASSAGARRIORA S AKARSA

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 504