Book Title: Vastupal Prashasti Sangraha
Author(s): Punyavijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
चतुर्दशं परिशिष्टम श्रीमदरिसिंहविरचितं
सुकृतसंकीर्तनमहाकाव्यम् ।
वनराजः
श्रीवेश्मविस्मयमयप्रबलप्रतापश्चापोत्कटान्वयवनैकहरिनरेन्द्रः । आसीदसीमचरितः परितप्तशत्रु-भालाप्तिाभिनलिनो वनराजदेवः यत्खड्गखण्डितविरोधिशिरोऽधिरक्त-स्रोतस्विनीभिरुदधिर्विदधे सरागः । येनाऽधुनाऽप्यरुणतां भजतस्तदङ्ग-सम्पर्कतोऽर्क-शशिनावुदयक्षणेषु निर्गत्य कोशकुहरादसिदन्दशूकः, श्यामो यथागतमगात् त्वरितं यदीयः । एतेषु मास्म विशदेष परैरितीव, रुद्धेषु वक्त्रविवरेषु कराङ्गुलीभिः खट्वाङ्गसञ्जतकरस्तरवारिलग्न-कृत्तारिमुण्डमिषतः समराङ्गणे यः । भालाधिरोपितहुताशनचण्डचक्षु-रामादिभासुरविरोधिविभासुरश्रीः
॥४॥ तेने कृतान्तसमतां रसनासनाभि-धारोद्धरो यदसिरञ्जनमञ्जलश्रीः । अहाय यस्य युधि दर्शनसंज्ञयैव, भिन्दन्नरीनधित किङ्करतां कृतान्तः स्तब्धप्रकम्पितविलीनविवर्णगात्रैः, खिन्नैर्विभङ्गररवस्फुरदश्रलेशम् । उन्मुच्य पौरुषमवाप्य च भीरुभावं, यः सेव्यते रिपुभिरुत्पुलकैः प्रसन्नः ॥६॥ आकर्ण्य तूर्णमुपकर्णयितुं च यस्य, कीर्ति मुहुर्भुजगभीरुगणेन गीताम् । चक्षुःश्रवा रसक्शेन दृशां निमेषो-न्मेषक्रियामनिमिषोऽपि चकार शेषः वक्रीकृते धनुषि मौक्तिकताडपत्रज्योत्स्नाम्बुभारभृति पल्वलतां दधाने । यस्याऽऽननं विकचवारिजकल्पमन्त-भेंजे विहाय परराजकरान् जयश्रीः ॥८॥ श्रीमत् पुरं भुवि पुरन्दरपत्तनाभं, तेनाऽऽदधेऽणहिलपाटकनामधेयम् । स्त्रीणां मुखे स्मरतपस्विवनेऽजनीन्दु-पद्मश्रियोरसुहृदोरपि यत्र योगः। अन्तर्वसद्धनजनाद्भुतभारतो भू-र्मा भ्रश्यतादिति भृशं वनराजदेवः।
पञ्चासराहनवपार्श्वजिनेशवेश्म-व्याजादिह क्षितिधरं नवमाततान ॥१०॥ १ग-विशीर्ण ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8c8a8518f1988cfd9a092010022c3796b95f4500d4312d49c0bbaa1816e5fb08.jpg)
Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154