Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 5
________________ ॥ श्रीः ॥ भूमिका । अथैतेषु दिवसेषु सत्स्वपि परमप्राचीनेषु भाष्यकैयटाद्याकरग्रन्थेष्वर्वाचीनेषु शब्देन्दुशेखरशब्दरत्नमनोरमादिषु विविधवादग्रन्थेष्वतिविस्तृतेष्वखिलवैयाकरणसिद्धान्तप्रतिपादकेषु त ज्जिज्ञासूनां पुरुषायुषेणाप्यशेषतस्तज्ज्ञानासम्भवादनायासतस्तत्प्रतिपत्तये स्वपितृव्येण श्री भट्टोजिदीक्षितेन विनिर्मितकारिकाया व्याख्यानमिषेण वैयाकरणभूषणं नाम निबन्धं निबबन्ध श्रीकोण्डभट्टाभिधमहासुधीः । स चायं निबन्धो वैयाकरणप्राचीनमतसिद्धान्तानामुपपादकतया तार्किकमीमांसकादिबहुतरदुस्तर्काणां निरासकतया च विद्वज्जनानां महोपकारमापादयन्नपि केवलं पुस्तकालाभेन पठनपाउनादिव्यवहारागोचरीभूतो ऽभूत्सांप्रतिकानामध्ये तृणामध्यापकानां च । ते चाद्यावधि केवलमल्पधियां सुबोधायैतद्ग्रन्थकृता निर्मितं वैयाकरणभूषणसारनामकमेतत्पुस्तक स्थिताल्पविषयविभूषितमेव व्यवहारविषयीभूतं व्यतन्वन् । तदेवं विद्यावतामनल्पमपकारमपाकुर्वता हरिदासति यथार्थनामश्रेष्ठि सद्वितीयेन ब्रजभूषणदासनाम्ना श्रेष्ठवरेण वाराणसेय संस्कृतसेरिजाख्यस्वीयपुस्तकावल्यामेतत्मचिकाशयिषुणा वारंवारं प्रोक्तचरपुस्तकमुद्रणाय समभ्यर्थितो ऽहं शेषोपाख्यप्राचीनतर वैयाकरणमन्दिरान्महामहोपाध्यायभारद्वाजदामोदरशास्त्रिमित्रवरमन्दिराच्चानीतैतत्पुस्तकद्वय सहायेन परमपरिश्रमेण चैतत्संशोध्यामुद्रयम् ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 398