Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 16
________________ धात्वर्थनिर्णयः। स्यात् । तृनादेः परं शक्तिरिति न दोषः । आदेशानां वाचक स्वेपि न दोषः । हरवत्यादौ च प्रत्येकं पदानामधूनशक्ति कानां तत्तदर्थोपस्थापनद्वारा वाक्यार्थबोधकत्वसम्भवाम वा. क्यस्फोटादिः । अत्र त्वनुपपत्त्या कर्तर्येव शक्तिरित्याहुः । भावनान्वयिनि संख्यान्वय इत्यसङ्गतम् । न पचतीत्यत्र भा. घनानन्वयिन्येव कर्तरि तदन्वयेन व्यभिचारात् । संख्यायाः प्रत्ययार्थत्वाद्भावनायाश्च धात्वर्थत्वस्य वक्ष्यमाणत्वात्समानपदोपात्तत्वस्याभावाच्च । विशेष्यतयाख्यातजन्यसंख्या. बोधं प्रति तेनैव सम्बन्धेन भावनाप्रकारकबोधसामग्रीत्वेन हे. तुत्वपर्यवसानेन गौरवाच । समानपदोपस्थितान्वयित्वमपेक्ष्य समानपदोपात्तत्वस्यैव लाघवेन संख्यान्वयनियामकत्वौचित्या. छ । भावनान्वयनियामकस्यैव तद्धेतोरिति न्यायेन संख्यावयनियामकत्वौचित्याच्च । भावनान्वयिनि संख्यान्वय इ. तिवत्संख्यान्वयिन्येव भावनान्वय इत्यस्यापि मुवचत्वाच्च । तस्मात् प्रथमान्तपदोपस्थाप्यएव संख्यान्वयः, प्रथमान्तपदोपस्थाप्यत्वमेव नियामकम् । किञ्चैवं सति विशेष्यतासम्बन्धे. नाख्यातार्थसंख्याप्रकारकबोधं प्रति इतराविशेषणप्रथमान्तपदजन्योपस्थितिविषयतया कारणमिति लघुभूतः कार्यकारणभावः फलितः । ' नारायण इव नरो हन्ति ' ' चन्द्र इव मुखं हु. श्यते' इत्यत्र नारायणे चन्द्र च संख्यान्वयवारणायेतराविशेष. णति । चैत्रेण सुप्यत इत्यत्र चैत्रनिष्ठस्वाप इति बोधाद्विशेष्ये स्वापे तद्वारणाय प्रथमान्तेति । वस्तुतस्तु तवापि कुत्र कर्ता वाच्यः, कुत्र कर्मेत्यत्र नियामकाभावाच्छवादिकं द्योतकं पाच्यम्, तथा च ममापि कुत संख्यावय इत्यत्रापि तदेव द्योतकमिति न काप्यनुपपत्तिः । एवं कुदादिसाधारण्याय मुख्य

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 398