Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 4
________________ श्रीउत्तराध्ययनचूर्णिः प्राक् तावत् आवश्यकनन्दीअनुयोगद्वारदशवकालिकनामधेयानामागमाना चूर्णयः संस्थयतया प्रादुष्कृताः, अधुना तु श्रीमतामुत्तराध्ययनानां चूर्णिः प्रादुर्भाव्यते, यथा प्राक्तनचूनां मुद्रणे मूलमूत्राणि न धृतानि न च नियुक्तिर्भाष्यं च धृते, किन्तु प्राङ्मुद्रितानामेव वृत्तिपुस्तकानां गाथाद्यकाः पत्रांकाश्च धृताः तद्वदत्रापि न मूलसूत्राणि न च नियुक्तिर्नापि भाष्यं च मुद्रितानि, किन्तु तत्र तत्र प्रामुद्रितायाः श्रीशान्तिसूरिभूत्रितायाष्टीकापतेः पत्रांका धृता गाथायंका अपि तत्रस्था एव धृताः, एतस्या अपि चूर्णेः प्राङ्मुद्रितचूर्णीनामिव नात्यन्तमुपयोगः सूत्रार्थावगमे तथापि साहित्यरसिकानां पदार्थवैचित्र्यान्वेषणे भविष्यत्यवापयोगोऽस्याः, प्रादुष्करणं चास्याः प्राचीनसाहित्यप्राकट्यायैव यतो नात्र ग्राहकसंख्या तथाविधा, भाषा प्राकृता विवृतिश्च संक्षिप्तेति हेतुरपि तत्र, भविष्यति चाशास्महे आचारांगसूत्रकृतांगभगवतीनां चूर्णीनां मुद्रणक्रियां, प्रार्थयामहे च सज्जनान् यदुत यत्किचित् सूचनीयं विधाय कृपां ज्ञातव्यमिति अलेख्यानन्दसागरैः वीरसंवत् २४५९ आश्विनशुक्ला प्रतिपत्, सुरत

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 290