Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 4
________________ उत्तराध्य यनसूत्रम् ॥ २ ॥ हि त्वां पाठयिष्यति ।। १२ ।। ततः स गत्वा श्रावस्ती - मिन्द्रदत्तं प्रणम्य च ॥ आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ॥ १३ ॥ उपाध्यायोऽभ्यधाद्वत्स ! युक्तस्तेऽसौ मनोरथः ॥ विशेषं नह्यहं कञ्चित् पश्यामि पशुमूढयोः ॥ १४ ॥ किन्तु ते भोजनं दातुं, निःसत्त्वादक्षमोऽस्म्यहम् ॥ तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यति ? ॥ १५ ॥ भ्रातुष्पुत्राय ते विद्यार्थिने प्राघुर्णकाय च ॥ भोज्यदानेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! ॥ १६ ॥ अलपत्कपिलस्तात ! कृतं चिन्तनयाऽनया ॥ भिक्षावृत्या करिष्येऽहं प्रत्यहं प्राणधारणम् ॥ १७ ॥ उवाच पाठको भिक्षावृत्त्याऽध्येतुं न शक्ष्यते ॥ तदेहि तव भुक्त्यर्थं प्रार्थये कञ्चिदीश्वरम् ॥ १८ ॥ इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् ॥ जगाम कुञ्जर इव, कलभेन समं सरः ॥ १९ ॥ ॐ भूर्भुवः स्वरित्यादि- गायत्रीमंत्रवादिनम् ॥ दत्ताशिषं तमिभ्योऽपि किं कार्यमिति पृष्टवान् ॥ २० ॥ ऊचे द्विजोऽमुं मन्मित्र पुत्रमध्येतुमागतम् ॥ भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि महाफलः ॥२१॥ सहर्षं शालिभद्रेण, तद्वाक्ये स्वीकृतेऽन्वहम् ॥ पपाठ पाठकोपान्ते, भुक्त्वा तद्धाग्नि माणवः ॥ २२ ॥ भोक्तुङ्गतस्य तद्गेहे, कपिलस्यानुवासरम् ॥ दास्येका तरुणी भोज्यं, शोभनं पर्यवेषयत् ॥२३॥ तस्य विद्याभिरात्मानं, भोज्यैरङ्गञ्च पुष्णतः ॥ उदभूद्यौवनं दाक्ष्याङ्कुरोज्जीवनजीवनम् ॥ २४ ॥ हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत || यौवनं हि विकाराणां, सर्वेषामादिकारणम् ॥ २५ ॥ तया च रक्तया साकं, कपिलोऽरमताऽनिशम्। तदेकचित्ता तञ्चैव मूचे दास्यन्यदा रहः ॥ २६ ॥ त्वमेव मे प्रियः किन्तु, निःस्वोऽसीत्यपरं नरम् ॥ सेवे वस्त्रादिहेतोश्चे न ते कोपः प्रजायते ॥ २७ ॥ अन्वमन्यत निर्मन्यु- स्तत्रार्थे कपिलोऽपि ताम् ॥ तस्यां पुर्याञ्चान्यदाऽऽसी दासीनामुत्सवो महान् ॥ २८ ॥ तदा च प्रेक्ष्य तां दासी मुद्विग्नां कपिलो द्विजः ॥ १ अल्पवयस्कः | UTR-2 अध्य. ८ ॥२॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 386