Book Title: Uttaradhyayanam Sutram Part 02 Author(s): Chandraguptasuri Publisher: Anekant Prakashan Jain Religious Trust View full book textPage 9
________________ उत्तराध्य अध्य.८ यनसूत्रम् ॥७॥ पुनरभिधानं तत्तदा भगवतस्तानेवोद्दिश्य प्रवृत्तिरिति प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ ३ ॥ यच्चासौ भाषते तदाह-- मूलम्-सव्वं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू । सव्वेसु कामजाएस, पासमाणो न लिप्पई ताई ॥४॥ व्याख्या-- सर्वमशेषं ग्रन्थं बाह्यं धनादिकं आन्तरं मिथ्यात्वादिकं परिग्रहं, कलहहेतुत्वात्कलहः क्रोधस्तं, च शब्दान्मानादींश्च, आन्तरग्रन्थरूपत्वेऽप्येषां पृथक् ग्रहणं बहुदोषताख्यापनार्थं, 'विप्पजहेत्ति' विप्रजह्यात्त्यजेत्, तथाविधं कर्मबन्धहेतुं धर्मोपकरणमपीत्यभिप्रायः । भिक्षुर्मुनिः ततश्च किं स्यादित्याह, सर्वेषु कामजातेषु शब्दादिविषयसमूहेषु 'पासमाणोत्ति ' पश्यन् अत्यन्तकटुकं तद्दोषमिति शेषः, न लिप्यते न सज्यते 'ताइत्ति' त्रायते रक्षत्यात्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ॥ ४ ॥ इत्थं ग्रन्थत्यागे गुणमुक्त्वा व्यतिरेके दोषमाह-- मूलम्--भोगामिसदोसविसन्ने, हिअनिस्सेअसबुद्धिविवज्जत्थे। बाले अ मंदिए मूढे, बज्झई मच्छिआ व खेलंमि ॥५॥ व्याख्या-- भोगा एव गृद्धिहेतुत्वादामिषं भोगामिषं, तदेवात्मदूषणाद्दोषो भोगामिषदोषस्तस्मिन् विविधं सन्नो निमग्नो भोगा| मिषदोषविषण्णः, हिते निश्रेयसे मोक्षे बुद्धिस्तल्लाभोपायविषया मतिविपर्यस्ता विपर्ययवती यस्य स हितनिश्रेयसबुद्धिविपर्यस्तः,बालश्शाज्ञः, 'मंदिएत्ति' सूत्रत्वान्मन्दो धर्मकरणम्प्रत्यलसः, मूढो मोहाकुलितचेता: बध्यते श्लिष्यतेऽर्थात् ज्ञानावरणादिकर्मणा मक्षिकेव श्लेष्मणि रजसेति गम्यते । अयं भावः- यथाऽसौ तद्गन्धेनाकृष्यमाणा खेले मज्जति, मग्ना च रेवादिना बध्यते, एवं जीवोऽपि UTR-2 ॥७॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 386