Book Title: Uttaradhyayanam Sutram Part 02 Author(s): Chandraguptasuri Publisher: Anekant Prakashan Jain Religious Trust View full book textPage 8
________________ उत्तराध्य यनसूत्रम् ॥६॥ तत्प्रतिबोधनीयपूर्वसङ्गतिकापेक्षमिति सूत्रार्थः ॥ १ ॥ एवञ्च भगवतोद्गीते तालान् कुट्टयद्भिश्चौरैश्च प्रत्युद्गीतेऽस्मिन् ध्रुवके पुनर्भगवानाह - मूलम् - विजहित्तु पुव्वसंजोगं, न सिणेहं कहिंचि कुव्विज्जा । असिणेह सिणेहकरेहिं, दोसपओसेहिं मुच्चए भिक्खु ॥ २ ॥ व्याख्या -- विहाय त्यक्त्वा पूर्वसंयोगं, पूर्वपरिचितानां मातापित्रादिस्वजनानामुपलक्षणत्वाद्धनस्य च सम्बन्धं, न स्नेहमभिष्वङ्गं क्वचिद्वाह्येऽभ्यन्तरे वा परिग्रहे कुर्वीत कुर्यात्, तथा च को गुणः ? इत्याह, अस्नेहः प्रतिबन्धरहितः प्राकृतत्वाद्विसर्गलोपः, स्नेहकरेष्वपि पुत्रकलत्रादिषु आस्तामन्येषु, अपिश्चात्र लुप्तो द्रष्टव्यः, दोषाश्च इहैव मनस्तापादयः, प्रदोषाश्च परत्र नरकप्राप्तादयो दोषप्रदोषास्तैर्मुच्यते त्यज्यते भिक्षुरिति सूत्रार्थः ॥ २ ॥ पुनर्यदसौ कृतवांस्तदाह- मूलम् --तो णाणदंसणसमग्गो, हिअनिस्सेअसाए सव्वजीवाणं । सिं विमोक्खणट्टाए, भासई मुणिवरो विगयमोहो ॥ ३ ॥ व्याख्या-- 'तोत्ति' ततोऽनन्तरं भाषते मुनिवर इति सम्बन्धः, स च कीदृश इत्याह । ज्ञानदर्शनाभ्यां प्रस्तावात्केवलाभ्यां समग्रः समन्वितः किमर्थं भाषते ? इत्याह । 'हिअनिस्सेअसाएत्ति' सूत्रत्वात् हितो भावारोग्यहेतुत्वात् पथ्यो यो निश्रेयसो मोक्षस्तस्मै तदर्थं, केषां ? सर्वजीवानां,' तेसिंति' चस्य गम्यत्वात्तेषाञ्च पञ्चशतचौराणां विमोक्षणार्थं भाषते वक्ति वर्त्तमाननिर्देशस्तत्कालापेक्षया मुनिवरो विगतमोहः क्षपितमोहनीयकर्मा । इह च 'हिअनिस्सेअसाए सव्वजीवाणमित्यनेनैव चरितार्थत्वेऽपि 'तेसिं विमोक्खणट्ठाएत्ति' यत् UTR-2 अध्य. ८ ॥६॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 386