Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 14
________________ उत्तराध्य यनसूत्रम् ॥ १२ ॥ भोगाः स्त्रियोऽक्षिषु ॥ गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥१॥" इत्यादिकं । स्वप्नं च स्वप्नस्य शुभाशुभसूचकं शास्त्रं, "अलङ्कृतानां द्रव्याणां वाजिवारणयोस्तथा ॥ वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः ॥ १ ॥" तथा " मुत्रं वा कुरुते स्वप्ने, पुरीषञ्चापि लोहितम् ॥ प्रतिबुद्ध्येत यः सोऽर्थ नाशं प्राप्नोति निश्चितम् ॥ १॥" इत्यादिकं । अङ्गविद्यां च शिरः प्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां, "सिरफुरणे किर रज्जं, पिअमेलो होइ बाहुफुरणम्मि ॥ अच्छिफुरणंमि अ पिअं, अहरे पिअसंगमो होइ ॥ १ ॥ " इत्यादिकां । प्रणवमायाबीजादिवर्णविन्यासात्मिकां वा । चकारः सर्वत्र वाशब्दार्थ:, ये प्रयुञ्जते व्यापारयन्ति, पुनर्ये इति ग्रहणं लक्षणादिभिः पृथक् सम्बन्धसूचनार्थं, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव 'न हु' नैव ते श्रमणा उच्यन्ते । इह च पुष्टालम्बनं विना तद्व्यापारणे एवमुच्यते, अन्यथा करवीरलताभ्रमकतपस्विनोऽपि तथात्वापत्तेः, एवं आचार्यैराख्यातं कथितमिति सूत्रार्थः ॥१३॥ तेषां फलमाह- मूलम् - इह जीविअं अनिअमेत्ता, पब्भट्ठा समाहिजोएहिं । ते कामभोगरसगिद्धा, उववज्जंति आसुरे काए ॥ १४॥ व्याख्या - इह जन्मनि जीवितमसंयमजीवितं अनियम्य द्वादशविधतपोविधानादिना अनियंत्र्य प्रभ्रष्टाः प्रच्युताः समाधिश्चिस्वास्थ्यं तत्प्रधाना योगाः शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः तेऽनन्तरोक्ताः कामभोगेषु पूर्वोक्तेषु रसेषु मधुरादिषु च गृद्धा लोलुपाः कामभोगरसगृद्धाः भोगान्तर्गतत्वेऽपि रसानां पृथग्ग्रहणमतिगृद्धहेतुत्वख्यापकं, उपपद्यन्ते जायन्ते आसुरे असुरसम्ब UTR-2 अध्य. ८ ॥१२॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 386