Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 12
________________ श्रोउपदेशपदे ला ।।४।। त्रिलोकनाथम् ; जिन दुरन्तरागाद्यन्तरवैरिवारजेतारम् । कमित्याह-:दुर्गसुराधमसंगमकादिक्षद्रजन्तुकृतोपसर्गवर्जसंसर्गेऽप्यविचलितसत्त्वतया महान बृहद्वीरः शूरो यस्तं महावीरम् अपश्चिमतीर्थाधीश्वरं वर्द्धमाननामानमित्यर्थः । पनरपि श्रीमहाकीदृशमीत्याह;-लोक उक्तलक्षणस्तद्विपरीतश्चालोकः, लोकालोकयोर्मगाङ्क इव केवलालोकपूर्वकवचनचन्द्रिकाप्राग्भा वीर रेण यथावस्थिततत्स्वरूपप्रकाशनात् तं लोकालोकमगाङ्कम् । तथा, 'षिा बन्धने' इति वचनात्सितं चिरकालबद्ध गुणदर्शनम् कर्मध्मातं निर्दग्धं शुकलध्यानानलाद्य न स निरुक्तात्सिद्धः; 'षिधु गत्याम्' इति गतो निर्वति यातो भवनादभतभतविभूतिभाजनतया, "षिध शास्त्रे मांगल्ये च' इति वचनात् समस्तवस्तुस्तोमशास्ता विहितमङ्गलः, 'षिधु संराद्धौ' 'राध साध संसिद्धौ' इति वचनात् साधितसकलप्रयोजनो वा सिद्ध स्तं सिद्धम्-उक्तं च ;-"मातं सितं येन पराणकर्म यो वा गतो निर्वतिसौधमूधिन । ख्यातोऽनुशास्ता परिनिहितार्थो यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥१॥" तथा, सिद्धः प्रमाणबलोपलब्धात्मतत्त्व उपदेशस्य प्रवचनस्यार्थः जीवाजीवादिरूपोऽभिधेयविशेषो यस्य स तथा; अथवा सिद्धः सकलक्लेशविनिर्मुक्तो जीवविशेषः स एवोपदेशस्याज्ञाया अर्थ प्रयोजनं यस्य स तथा, भगवदाज्ञाया मोक्षकफलत्वेन परमषिभिः प्रतिपादितत्वात, अतस्तं सिद्धोपदेशार्थम् । अत्र च विशेषणबाहुल्यमज्ञातज्ञापनफलमेवोक्तम, न पूनर्व्यवच्छेदा| र्थम्, यथा कृष्णो भ्रमरः शुक्ला बलाका इत्यादीवेति ॥१॥ B वक्षयेऽभिधास्ये किमित्याह ;-उपदेशपदानि, इह सकललोकपुरुषार्थेषु मोक्ष एव प्रधानः पुरुषार्थ इति तस्यैव । मतिमतामुपदेशमहत्वेन तदुपदेशानामेव भावत उपदेशत्वमामनन्ति तत उपदेशानां मोक्षमार्गविषयाणां शिक्षाविशेषाणां

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 438