Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 19
________________ 16 ५. कर्णिकावृत्त्याः कर्तार: अत्र या टीका संपाद्यते साऽस्ति कर्णिकानाम्नी । तस्याः कर्तारः सन्ति श्रीमद्उदयप्रभसूरयः । ते नागेन्द्रगच्छीयाः सन्ति । टीकायाः रचना वि.सं. १२९९तमे वर्षे जाताऽस्ति । एकः महद्भूतः अंश: अयं यद् एषा टीका प्रसिद्धैः संशोधकैः टीकाकारसमकालीनैः श्रीप्रद्यम्नसरिभिः संशोधिता। टीकाकारैः स्वस्य अन्यास कतिष्विव अस्यामपि टीकायां प्रशस्ति: दत्ता । यया पूज्यानां समुज्ज्वला गुरुपरम्परा ज्ञायते । ५.१. समुज्ज्वला गुरुपरम्परा : नागेन्द्रगच्छे श्रीमहेन्द्रप्रभसूरीश्वराणां पट्टे श्रीशान्तिसूरीश्वराः संजाताः । येषां षड्दर्शनविषयको बोधः सागरायते स्म । तेषां पट्टे श्रीआनन्दसूरीश्वराः श्रीअमरचन्द्रसूरीश्वराश्च जाताः । तयोः सत्तर्ककर्कशधियोः अक्षोभ्यमगाधं च ज्ञानं दृष्ट्वा श्रीसिद्धराजजयसिंहः 'व्याघ्रशिशुः सिंहशिशुः' इति उपाह्वां (बिरुद) ताभ्यां दत्तवान् । सतीशचन्द्रविद्याभूषणनामा आधुनिक: प्रतिष्ठितः विद्वानेवं मन्यते यदेतौ सूरिवरौ एव मनसि निधाय न्यायदर्शने युगप्रवर्तकः पण्डितप्रकाण्डं गङ्गेशोपाध्यायः स्वस्य मणिभूते तत्त्वचिन्तामणिग्रन्थे सिंहव्याघ्रलक्षणं दत्तवान् । एतदेव बोधयति यद् सूरिवरयोः ज्ञानं कियद् विशिष्टं स्यात् । तत्पदे 'कलिकालगौतम'विशेषणविशिष्टाः श्रीहरिभद्रसूरयः जाताः । तेषां पट्टे जाताः श्रीविजयसेनसूरयः । ये मन्त्रीश्वरवस्तुपालस्य कुलगुरवः आसन् । तेषां शिष्याः सन्ति प्रस्तुतायाः कर्णिकाटीकायाः स्रष्टारः श्रीमद्उदयप्रभसूरीश्वराः । एषा समुज्ज्वला गुरुपरम्परा एव द्योतयति यद् टीकाकारैः वैदुष्यं तु गर्भलब्धमासीत् । ५.२. वस्तुपालमन्त्रिणा सह सम्बन्धः : ___ यथा अस्माभिः अधुनैव दृष्टं तथा टीकाकाराणां गुरुवराः श्रीविजयसेनसूरीश्वराः श्रीवस्तुपालमन्त्रिणः कुलगुरवः आसन् । अत एव मन्त्रीश्वरा पूज्यान् प्रति परमभक्तिमान् आसीत् । पुरातनप्रबन्धसंग्रहगतेन प्रबन्धेन ज्ञायते यद् श्रीमउदयप्रभसूरीश्वराणां प्रारम्भिके संयमजीवने तेषां विद्याध्ययनार्थं मन्त्रीश्वरेण समग्रस्य भारतस्य प्रत्येकं कोणेभ्यः चित्वा चित्वा पण्डिताः आहूताः आसन् । चाचरनाम्नः कस्यचित् कथाकारस्य कथाकथनशैली मुनिवराः यथा ज्ञातुं शक्नुयुः तदर्थं सहस्रशः सुवर्णमुद्राः मन्त्रीश्वरेण व्ययिताः आसन् । मन्त्रीश्वरैः कृतानां विविधानां सङ्घयात्राणां प्रशस्त्यादिक रचितमाचार्यः। मन्त्रीश्वरः सर्वेषु कार्येषु गुरूणां मार्गदर्शनेनैव प्रवर्तते स्म । एकदा शत्रुञ्जयतीर्थस्य द्रव्यव्यवस्थावलोकनार्थं तत् एकः मुनिवरः नियुक्तः । किन्तु कालादिदोषात् स साध्वाचारे शिथिलः जातः । शत्रुञ्जयं गतः मन्त्रीश्वरः यदा एतद् ज्ञातवान् तदा स्वदोषपश्चात्तापी स मुनिवर: अनशनं स्वीकृतवान् । धवलकं प्रति पुनरागतः मन्त्रीश्वरः आचार्येभ्यः एतद् ज्ञापितवान् । तदा श्रीउदयप्रभसूरिभिः कथितमितः परं द्रव्यव्यवस्थावलोकनाय कस्यापि मुनेः योजनं न कर्तव्यम् । यतः तत्र तादृशस्य आत्माथिनोऽपि मुनेः आचारशैथिल्यं जातमत: इतरेषां का कथा? एवं मन्त्रीश्वरस्य जीवने पूज्यानां प्रभावातिशयः पूज्यानां जीवने च मन्त्रीश्वरस्य भक्त्यतिशयः निश्चीयते । ५.३. टीकाकर्तृणां कवनम् : ___एतां टीकां विहाय एतेषामेव पूज्यानामन्याः केचन एव रचनाः समुपलभ्यन्ते । तासु एकाऽस्ति सुकृतकीर्तिकल्लोलिनी। यस्यां मन्त्रीश्वरस्य वस्तुपालस्य सङ्घयात्रादिसुकृतानां प्रशस्तिः सविस्तृतं वर्णिता । एतादृशी एव किन्तु इतोऽपि अतीव विस्तृता कथानकादिमयी रचनाऽस्ति-धर्माभ्युदयमहाकाव्यम् (अपरनाम-सङ्घपतिचरित्रम्) । तस्मिन् वस्तुपालस्य महायात्रया सह श्रीऋषभजिनादीनां कथानकानि अपि यथायोग्यं गुम्फितानि सन्ति । पूज्यानां नाम्ना, नेमिनाथचरित्रम् इत्यपि काचिद् रचना वर्ण्यते किन्तु सा वस्तुतः स्वतन्त्रा रचना नास्ति किन्तु धर्माभ्युदयमहाकाव्यादेव पृथक्कृतं तच्चरित्रमस्ति । जैनशासने विद्यमानेषु ज्योतिषविषयेषु ग्रन्थेषु सर्वाधिकतया प्रतिष्ठितः प्रमाणीकृतश्च ग्रन्थः अस्ति आरम्भसिद्धिः, एषाऽपि पूज्यानामेव रचना । एकतः अलङ्काररसादिमयानि काव्यानि रचयन् कविवरः अन्यतः एतादृशं शास्त्रमपि सृजेद् इत्येतत् निश्चयेन चेतश्चमत्कारि खलु । अन्तिमा च एषा प्रस्तुतैव कर्णिकावृत्तिः । तां विना एताः सर्वा अपि रचनाः प्रकाशिताः ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 564