________________
16
५. कर्णिकावृत्त्याः कर्तार:
अत्र या टीका संपाद्यते साऽस्ति कर्णिकानाम्नी । तस्याः कर्तारः सन्ति श्रीमद्उदयप्रभसूरयः । ते नागेन्द्रगच्छीयाः सन्ति । टीकायाः रचना वि.सं. १२९९तमे वर्षे जाताऽस्ति । एकः महद्भूतः अंश: अयं यद् एषा टीका प्रसिद्धैः संशोधकैः टीकाकारसमकालीनैः श्रीप्रद्यम्नसरिभिः संशोधिता। टीकाकारैः स्वस्य अन्यास कतिष्विव अस्यामपि टीकायां प्रशस्ति: दत्ता । यया पूज्यानां समुज्ज्वला गुरुपरम्परा ज्ञायते । ५.१. समुज्ज्वला गुरुपरम्परा :
नागेन्द्रगच्छे श्रीमहेन्द्रप्रभसूरीश्वराणां पट्टे श्रीशान्तिसूरीश्वराः संजाताः । येषां षड्दर्शनविषयको बोधः सागरायते स्म । तेषां पट्टे श्रीआनन्दसूरीश्वराः श्रीअमरचन्द्रसूरीश्वराश्च जाताः । तयोः सत्तर्ककर्कशधियोः अक्षोभ्यमगाधं च ज्ञानं दृष्ट्वा श्रीसिद्धराजजयसिंहः 'व्याघ्रशिशुः सिंहशिशुः' इति उपाह्वां (बिरुद) ताभ्यां दत्तवान् । सतीशचन्द्रविद्याभूषणनामा आधुनिक: प्रतिष्ठितः विद्वानेवं मन्यते यदेतौ सूरिवरौ एव मनसि निधाय न्यायदर्शने युगप्रवर्तकः पण्डितप्रकाण्डं गङ्गेशोपाध्यायः स्वस्य मणिभूते तत्त्वचिन्तामणिग्रन्थे सिंहव्याघ्रलक्षणं दत्तवान् । एतदेव बोधयति यद् सूरिवरयोः ज्ञानं कियद् विशिष्टं स्यात् । तत्पदे 'कलिकालगौतम'विशेषणविशिष्टाः श्रीहरिभद्रसूरयः जाताः । तेषां पट्टे जाताः श्रीविजयसेनसूरयः । ये मन्त्रीश्वरवस्तुपालस्य कुलगुरवः आसन् । तेषां शिष्याः सन्ति प्रस्तुतायाः कर्णिकाटीकायाः स्रष्टारः श्रीमद्उदयप्रभसूरीश्वराः । एषा समुज्ज्वला गुरुपरम्परा एव द्योतयति यद् टीकाकारैः वैदुष्यं तु गर्भलब्धमासीत् । ५.२. वस्तुपालमन्त्रिणा सह सम्बन्धः :
___ यथा अस्माभिः अधुनैव दृष्टं तथा टीकाकाराणां गुरुवराः श्रीविजयसेनसूरीश्वराः श्रीवस्तुपालमन्त्रिणः कुलगुरवः आसन् । अत एव मन्त्रीश्वरा पूज्यान् प्रति परमभक्तिमान् आसीत् । पुरातनप्रबन्धसंग्रहगतेन प्रबन्धेन ज्ञायते यद् श्रीमउदयप्रभसूरीश्वराणां प्रारम्भिके संयमजीवने तेषां विद्याध्ययनार्थं मन्त्रीश्वरेण समग्रस्य भारतस्य प्रत्येकं कोणेभ्यः चित्वा चित्वा पण्डिताः आहूताः आसन् । चाचरनाम्नः कस्यचित् कथाकारस्य कथाकथनशैली मुनिवराः यथा ज्ञातुं शक्नुयुः तदर्थं सहस्रशः सुवर्णमुद्राः मन्त्रीश्वरेण व्ययिताः आसन् । मन्त्रीश्वरैः कृतानां विविधानां सङ्घयात्राणां प्रशस्त्यादिक रचितमाचार्यः।
मन्त्रीश्वरः सर्वेषु कार्येषु गुरूणां मार्गदर्शनेनैव प्रवर्तते स्म । एकदा शत्रुञ्जयतीर्थस्य द्रव्यव्यवस्थावलोकनार्थं तत् एकः मुनिवरः नियुक्तः । किन्तु कालादिदोषात् स साध्वाचारे शिथिलः जातः । शत्रुञ्जयं गतः मन्त्रीश्वरः यदा एतद् ज्ञातवान् तदा स्वदोषपश्चात्तापी स मुनिवर: अनशनं स्वीकृतवान् । धवलकं प्रति पुनरागतः मन्त्रीश्वरः आचार्येभ्यः एतद् ज्ञापितवान् । तदा श्रीउदयप्रभसूरिभिः कथितमितः परं द्रव्यव्यवस्थावलोकनाय कस्यापि मुनेः योजनं न कर्तव्यम् । यतः तत्र तादृशस्य आत्माथिनोऽपि मुनेः आचारशैथिल्यं जातमत: इतरेषां का कथा? एवं मन्त्रीश्वरस्य जीवने पूज्यानां प्रभावातिशयः पूज्यानां जीवने च मन्त्रीश्वरस्य भक्त्यतिशयः निश्चीयते । ५.३. टीकाकर्तृणां कवनम् :
___एतां टीकां विहाय एतेषामेव पूज्यानामन्याः केचन एव रचनाः समुपलभ्यन्ते । तासु एकाऽस्ति सुकृतकीर्तिकल्लोलिनी। यस्यां मन्त्रीश्वरस्य वस्तुपालस्य सङ्घयात्रादिसुकृतानां प्रशस्तिः सविस्तृतं वर्णिता । एतादृशी एव किन्तु इतोऽपि अतीव विस्तृता कथानकादिमयी रचनाऽस्ति-धर्माभ्युदयमहाकाव्यम् (अपरनाम-सङ्घपतिचरित्रम्) । तस्मिन् वस्तुपालस्य महायात्रया सह श्रीऋषभजिनादीनां कथानकानि अपि यथायोग्यं गुम्फितानि सन्ति । पूज्यानां नाम्ना, नेमिनाथचरित्रम् इत्यपि काचिद् रचना वर्ण्यते किन्तु सा वस्तुतः स्वतन्त्रा रचना नास्ति किन्तु धर्माभ्युदयमहाकाव्यादेव पृथक्कृतं तच्चरित्रमस्ति । जैनशासने विद्यमानेषु ज्योतिषविषयेषु ग्रन्थेषु सर्वाधिकतया प्रतिष्ठितः प्रमाणीकृतश्च ग्रन्थः अस्ति आरम्भसिद्धिः, एषाऽपि पूज्यानामेव रचना । एकतः अलङ्काररसादिमयानि काव्यानि रचयन् कविवरः अन्यतः एतादृशं शास्त्रमपि सृजेद् इत्येतत् निश्चयेन चेतश्चमत्कारि खलु । अन्तिमा च एषा प्रस्तुतैव कर्णिकावृत्तिः । तां विना एताः सर्वा अपि रचनाः प्रकाशिताः ।