________________
15
३. उपदेशमालायाः अनुपमता
जैनसाहित्यस्य विशालता, व्यापकता, विशदता, विशिष्टता च सर्वैः सुजैः विदिता एव । तत्र महत्तमभागः उपदेशसाहित्यस्य एव इत्यपि सुस्पष्टम् । यतः तत्त्वप्रधानं पदार्थप्रधानं वा साहित्यं तु विद्वज्जनग्राह्यं भवति प्रायः, उपदेशप्रधानं
साहित्यं सर्वग्राह्यं भवति । तादृशेष सहस्रशः ग्रन्थेष ऐदम्प्राथम्येन विराजमानः ग्रन्थराजः कस्य चित्तं नाकर्षेत् ? उपदेशमालामवलम्ब्य कैः कैः विद्वद्भिः स्वलेखनी न प्रवर्त्तिता खलु ! उपदेशमणिमाला, उपदेशरत्नमाला, धर्मोपदेशमाला, उपदेशमाला-पुष्पमाला, उपदेशरत्नकोशः, दानोपदेशमाला, उपदेशपदम्, शीलोपदेशमाला, उपदेशरत्नाकरः, उपदेशतरङ्गिणी, उपदेशसारः, उपदेशप्रासादः, कियन्ति नामानि लिख्येरन् ? एते ग्रन्थाः तु नामतोऽपि उपदेशमालामवलम्बन्ते । शैलितः उपदेशमालामवलम्बमानानां ग्रन्थानामावली तु अतिदीर्घा स्यात् ।
उपदेशमालायाः ५४४ गाथासु वैराग्यस्य निधिः एव समुल्लसति । अनेका गाथा: श्रावकजीवनस्य साधुजीवनस्य च कृते दीपस्तम्भायन्ते । सारल्येन सहैव गाम्भीर्यस्य योग:-यः प्रायः विरलतया एव दृश्यते-स अत्र साधितो ग्रन्थकारैः । उपदेशमालायाः गाम्भीर्यस्य तु इदमेव प्रमाणं यत भिन्नैः भिन्नैरनेकविदवद्भिः उपदेशमालाया विवरणे लघुः बृहद् वा प्रयत्नः कृतः।
परवर्त्तिग्रन्थेषु उपदेशमालाया गाथानामुद्धरणानि तु पृथक् संशोधनस्य विषयः अस्ति । नैकेषु ग्रन्थेषु तानि लभ्यन्ते । योगग्रन्थः भवतु पदार्थग्रन्थो वा, कथाग्रन्थः भवतु उपदेशग्रन्थो वा, उपदेशमालायाः उद्धरणं प्रायस्तत्र लप्स्यते एव । पूज्यपादानां वचनानि स्वतः प्रमाणानि सन्ति-इत्येतत् अनेन स्पष्टं भवति । पूज्योपाध्यायवर्यैः (श्रीयशोविजयपादैः) तु गूर्जरभाषानिबद्धेषु स्तवनादिषु अपि उपदेशमालायाः साक्ष्यं भूरिशः स्वीकृतम् ।
उपदेशमालाया अनुपमता एतेन सुष्ठ अभिलक्ष्यते । उपदेशमालाया विषयविवरणं तु अनुक्रमेण ज्ञास्यते, अतो न पुनरुच्यते। ४. उपदेशमालायाः टीकाग्रन्थाः
अस्य ग्रन्थस्य उपरि अद्यावधि यथा अग्रे सूचितं तथा प्रायः ३२ टीकाऽवचूरि-बालावबोधादिकं लभ्यते । सूरिपुरन्दरहरिभद्रसूरिभिः टीका रचिता इति योगशतकस्य ४९तमायाः गाथायाः विवरणेन ज्ञायते, किन्तु दौर्भाग्यात् सा टीकाऽधुना नोपलभ्यते । द्वितीया वि.सं. ९१३ मध्ये श्रीजयसिंहसूरिभिरपि टीका रचिता इति ज्ञायते किन्तु साऽपि नोपलभ्यते । उपलब्धेषु विवरणेषु प्राचीनतमा उत्कृष्टा च हेयोपादेया नाम्नी टीकाऽस्ति, विश्वेऽनुपमाया उपमितिकथायाः सर्जकानां श्रीसिद्धर्षिवर्याणाम् । सा च प्रायः वि.सं. ९६२तः प्रागेव रचिता स्यात् । एषैव टीका परवर्तिनां टीकाकाराणामाधारभूताऽस्ति । अत्र च या कर्णिका टीका ऐदम्प्राथम्येन संपाद्यते तस्यां प्रारम्भे एव टीकाकर्तारः श्रीमउदयप्रभसूरयः स्पष्टीकुर्वन्ति
"गाथास्ताः खलु धर्मदासगणिनः संजातरूपश्रियः किञ्चैष स्फुरदर्थरत्ननिकरः सिद्धर्षिणैवार्पितः" । तन्नाम, अत्र यद् अर्थरूपं विवरणं लिख्यते तत्तु सिद्धर्षिवर्यानुसारितयैव ज्ञेयम् । हेयोपादेयाटीकायां कथानकानि संस्कृतगद्ये अतीवलाघववत्या शैल्या लिखितानि सन्ति । अतः वि.सं. १०५५तमे वर्षे श्रीवर्धमानसूरिभिः तस्यामेव टीकायां प्राकृतबद्धानि दीर्घाणि कथानकानि योजितानि सन्ति । अनेन कारणेन केचन श्रीसिद्धर्षिभिः लघ्वी बृहती चेति द्वे टीके रचिते इति मन्यन्ते किन्तु अनवधानजा सा मान्यता ।
अपरा टीकाऽस्ति दोघट्टीनाम्नी । सा च १२३८तमे वर्षे श्रीरत्नप्रभसूरिभिः रचिता । तस्यामपि प्राकृतमयानि कथानकानि सन्ति । तस्यां प्रारम्भे उपदेशमालायाः रचनाहेतः सविस्तरं दर्शितः अस्ति।
तदनु च स्थिता प्रस्तुता एव कर्णिकाटीका यस्याः परिचयः अधः सविस्तरं दास्यते । अन्या च श्रीरामविजयैः रचिता सरलसंस्कृतगद्यकथामयी टीकाऽस्ति । अपरं च बालावबोधादिकमपि वर्तते किन्तु तस्य विषये विशेषविवरणं ग्रन्थान्तरेभ्यो ज्ञेयम्।