________________
कर्णिकावृत्तिसमन्विताया उपदेशमालाया भूमिका
देहिनां दुःखविच्छेदकारिणी धर्मदेशना ॥ १. विश्वस्य आधार:
अनादिकालीना इयमिच्छा सर्वेषामपि चेतनावतां जन्तूनां यद् दुःखं गच्छेत्, सुखं भवेत् । यावत्पर्यन्तं दुःखकारणानि रागादीनि आत्मनि संस्थितानि तावत्पर्यन्तं तु दुःखप्रहाणेच्छा दिवास्वप्नायते । यावत्पर्यन्तं च रागादिनिष्कासनोपायप्रतिबन्धकम् अज्ञानम् आत्मनि विलसति तावत्पर्यन्तं सुखाभिलाषः शशशृङ्गायते । धर्मदेशना तदेव करोति येन जीवस्य अज्ञानतिमिरं दूरीभवेत् । सकृद् वयं चिन्तयेम यद् अनन्तकरुणासागरैः तीर्थकरैः यदि धर्मदेशनामेघेन जगज्जीवानां कषायतापः निर्वापितः न स्यात् तहि विश्वस्य चित्रं कीदृग् स्यात् ? ऊहातीतं तच्चित्रं कल्प्यमानमपि अन्तःकरणं कम्पयति । अत एव तीर्थकराणामुपदेशः विश्वस्यापि विश्वस्य सौख्यकृते अनन्यः आधारः इति तु सर्वथा संसिद्धम् । अनेनैव हेतुना धर्मोपदेशमाहात्म्यं वर्णयद्भिः अभ्यधायि सूरिपुरन्दरैः श्रीहरिभद्रसूरिभिः योगशतके ३१तमगाथायाः वृत्तौ यदुत
"उत्तमः श्रुतधर्मः, मोहतमोरविः, पापवध्यपटहः, प्रकर्षः श्रव्याणाम्, सेतुः सुरलोकस्य, भावामृतमयम्, देशकः शिवगतेः, जिनभावबीजम, अभिव्यक्तो जिनेन, नातः परं कल्याणम्।" २. धर्मोपदेशकाः श्रीधर्मदासगणिन:
कालः तु अनादिः अनन्तश्च । अनन्तोपकारिणः तीर्थङ्कराः तु कालैकदेशस्थायिनः । शेषकाले तत्तत्क्षेत्रे तीर्थकरशासनं संचाल्यते शुद्धप्ररूपकेण धर्मोपदेशकेन । गीतार्थः यतनावान् भवभीरुः महांश्च धर्मोपदेशक: जिनेश्वराणामनुपस्थितौ जिनेश्वरायते । उपाध्यायवर्याः श्रीयशोविजयाः स्पष्टं बोधयन्ति यत् कलिकालेऽपि तस्यैव प्रभावाद् धर्म एधते । एतादृशेषु सहस्रशः धर्मोपदेशकेषु श्रीवीरशासनापेक्षया प्रथमपङ्क्तिगतं परममहिमोपेतं पुण्यनामधेयं विराजते - श्रीधर्मदासगणिनः । एतेषां वैशिष्ट्यं किञ्चिद् अपूर्वमेव । श्रीवीरभगवता स्वहस्तदीक्षिताः चतुर्दशपूर्वज्ञानिनः एते । आम्, सुसाध्यम् एतेषां चतुर्दश
बत्त्वम्। पठन्तु योगविशिकागतामिमां पक्तिम् "तथा च श्रुतकेवलिनो वचनम्-जह सरणमुवगयाणं" [उपदेशमाला गा० ५१८] तन्नाम श्रीधर्मदासगणिनं पूज्योपाध्यायवर्याः श्रुतकेवलित्वेन निर्दिशन्ति
अनेन च पूज्यपादानां समयविषयिणी पण्डितम्मन्यानाम् इतिहासविदां विविधा कल्पना दूरापास्ता एव । चतुर्दशपूर्वविदां [अवधिज्ञानिनां च] कृते तु समीपवर्तिभविष्यज्ज्ञानं करामलकायेत एव । अतः पश्चाद्वति पीस्थूलभद्रादीनां जीवनप्रसङ्गनिरूपणजन्यायाः श्रीधर्मदासगणिसमयविषयाया विप्रतिपत्त्या नास्त्येवावकाशः।
अत्र या उपदेशमाला संपाद्यते सा पूज्यपादैः स्वपुत्रस्य रणसिंहस्य वैराग्योत्पादनाय रचिता इति बोधितं श्रीरत्नप्रभसूरिभिः अस्याः एव दोघट्टीटीकाप्रारम्भे । स्वपुत्रस्य महामुनेः मनकस्य अल्पायुषि परमार्थसाधनाय पूर्वाब्धेः दशवैकालिकं समुद्धरद्भिः श्रीशय्यंभवसूरिभिः कदाचित्पूज्यपादेभ्यः एव प्रेरणा लब्धा न स्यान्नु ? दशवैकालिकमाशासनम् - शासनस्य अन्तं यावत् स्थास्यति । उपदेशमाला आशासनम् - शासनस्य स्थापनायाः आरभ्य स्थिताऽस्ति । दशवैकालिकस्य अधिकारी तु द्विविधः सङ्घः । उपदेशमालायाः अधिकारी तु चतुर्विधोऽपि सङ्घः । श्रीधर्मदासगणिभिः स्वस्य धर्मोपदेशकत्वेन जैनशासनस्य या प्रभावना कृता सा निश्चयेन अनितरसाधारणी एव । अस्मादृशां लेखनी तत् परिपूर्ण प्रतिपादयितुं पङ्ग एव।