Book Title: Tiloypannatti Part 3
Author(s): Vrushabhacharya, Chetanprakash Patni
Publisher: Bharat Varshiya Digambar Jain Mahasabha
View full book text ________________
तिलोयपण्णत्ती
दिवंगतेऽस्मिन् शिवसागरेश्त्र बभूव तत्पट्टपतिर्मनोज्ञः । 'श्रीधर्मसिन्धुर्यमिनां सुबन्धुः करोति यः संयमिनां सुरक्षाम् ।।११।।
* अनुष्टुप् * तस्मिन् संधे मुनिर्जातः सन्मतिसागराभिधः । लोकज्ञतागुणोपेतो धर्मवात्सल्यसंयुतः ॥१२॥ धायिका सद्वतादाने तेनैवाह समीरिता। जाताऽशुद्धपतित्वा विशुद्धमतिसंजिता ॥१३॥ वीरमत्यादिमत्याद्या मातरस्तत्र सन्ततम् । सत्तपश्चरणोद्युक्ताः साधयन्त्यात्मनो हितम् ॥१४॥ रत्नचन्द्रो महाविद्वानागमज्ञानभूषितः । गृहाद विरज्य संघेऽस्मिन् स्वाध्यायं विवधात्य सां ॥१५॥ एतस्य प्रेरणां प्राप्य ममापि रुचिरुद्यता । पागमाभ्यास सत्कार्ये स्वात्मकल्याणकारिणी ॥१६॥ गहाद विरज्य सन्नार्यः काश्चिदात्महितोधताः । साधयन्त्यात्मनः श्रेय एतत्संघस्य सन्निधौ ॥१७॥ इत्थं चतुर्विधः संघः पृथिव्यां प्रथितः परम् । विवध धर्ममाहात्म्यं कुर्वाणो जनताहितम् ।।१८॥ निर्ग्रन्था अपि सग्रन्था विश्रुता अपि सश्रुताः । कुर्वन्तु मङ्गलं मेऽत्र मुनीशास्तानमाम्यहम् ॥१६॥ राजस्थान महाप्रान्ते शौर्यविक्रमशालिनि । वोरप्रसविनी भूमिमेंद पाटेति संजिता ॥२०॥ वर्तते, तत्र कासार सन्तत्या परिभूषितम् । उदयपुर मित्याह पत्तनं प्रथितं पृथ ॥२१।। नाना जिनालये रम्यं गृहिभिर्धर्म वत्सलः । संयुतं वर्तते यत्र जैनधर्मप्रभावना ॥२२॥ तत्रास्ति पार्श्वनाथस्य मन्दिरं महिमान्वितम् । भूगर्भप्राप्तसद्विम्ब सहितं महितं बुधः ॥२३॥
१ श्रीधर्मसागरः ।
Loading... Page Navigation 1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736