SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ तिलोयपण्णत्ती दिवंगतेऽस्मिन् शिवसागरेश्त्र बभूव तत्पट्टपतिर्मनोज्ञः । 'श्रीधर्मसिन्धुर्यमिनां सुबन्धुः करोति यः संयमिनां सुरक्षाम् ।।११।। * अनुष्टुप् * तस्मिन् संधे मुनिर्जातः सन्मतिसागराभिधः । लोकज्ञतागुणोपेतो धर्मवात्सल्यसंयुतः ॥१२॥ धायिका सद्वतादाने तेनैवाह समीरिता। जाताऽशुद्धपतित्वा विशुद्धमतिसंजिता ॥१३॥ वीरमत्यादिमत्याद्या मातरस्तत्र सन्ततम् । सत्तपश्चरणोद्युक्ताः साधयन्त्यात्मनो हितम् ॥१४॥ रत्नचन्द्रो महाविद्वानागमज्ञानभूषितः । गृहाद विरज्य संघेऽस्मिन् स्वाध्यायं विवधात्य सां ॥१५॥ एतस्य प्रेरणां प्राप्य ममापि रुचिरुद्यता । पागमाभ्यास सत्कार्ये स्वात्मकल्याणकारिणी ॥१६॥ गहाद विरज्य सन्नार्यः काश्चिदात्महितोधताः । साधयन्त्यात्मनः श्रेय एतत्संघस्य सन्निधौ ॥१७॥ इत्थं चतुर्विधः संघः पृथिव्यां प्रथितः परम् । विवध धर्ममाहात्म्यं कुर्वाणो जनताहितम् ।।१८॥ निर्ग्रन्था अपि सग्रन्था विश्रुता अपि सश्रुताः । कुर्वन्तु मङ्गलं मेऽत्र मुनीशास्तानमाम्यहम् ॥१६॥ राजस्थान महाप्रान्ते शौर्यविक्रमशालिनि । वोरप्रसविनी भूमिमेंद पाटेति संजिता ॥२०॥ वर्तते, तत्र कासार सन्तत्या परिभूषितम् । उदयपुर मित्याह पत्तनं प्रथितं पृथ ॥२१।। नाना जिनालये रम्यं गृहिभिर्धर्म वत्सलः । संयुतं वर्तते यत्र जैनधर्मप्रभावना ॥२२॥ तत्रास्ति पार्श्वनाथस्य मन्दिरं महिमान्वितम् । भूगर्भप्राप्तसद्विम्ब सहितं महितं बुधः ॥२३॥ १ श्रीधर्मसागरः ।
SR No.090506
Book TitleTiloypannatti Part 3
Original Sutra AuthorVrushabhacharya
AuthorChetanprakash Patni
PublisherBharat Varshiya Digambar Jain Mahasabha
Publication Year
Total Pages736
LanguageHindi
ClassificationBook_Devnagari & Geography
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy