Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 09 10
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
१०।१ ]
श्रीतत्त्वार्थाधिगमसूत्रे # ॐ ह्रीं अर्हते नम: ॥
ॐ श्रीतत्त्वार्थाधिगमसूत्रम् ॥
है दशमोध्यायः
wwwwwwwwwwwwwwwwwww
* अथ दशमोऽध्यायः * जीवादिक-सप्ततत्त्वेषु . निर्जरापर्यन्तं षट्तत्त्वानां वर्णनं तु पूर्व सन्जातम्। क्रम प्राप्त + मवसरप्राप्तं तावद् अन्तिम तत्त्वं मोक्ष वर्णनम्। तस्मान्मोक्षवर्णन + मेव कुर्यात् किन्तु मोक्षप्राप्तिस्तु केवलज्ञान + पूर्विका भवति तस्मात्
केवल + ज्ञानं तत्कारणानि चोल्लिख्यन्ते卐 सूत्रम् - मोहक्षयाज्ज्ञान + दर्शननावरणान्तरायक्षयाच केवलम्॥०-१॥
सुबोधिका टीका निर्जरया कर्मणां क्षयो भवति किन्तु सर्वेषामाप्यष्ट कर्मणां क्षयो युगपेदव न भवति। प्रथमं तावद् चतुर्णां घातिकर्मणां क्षयो भवति तदनन्तरं चतुर्णामप्यघातिकर्मणां क्षयो भवति। अत्राघातिकर्मणां क्षये सति आत्मनि कःगुणः समुदैतीति कथयति- -- ---
मोहक्षयादिति। मोहक्षयात्.. ज्ञानदर्शनावरणान्तराय + कर्मक्षयाच्च केवल + ज्ञान + मुत्पद्यते। अर्थात् मोहनीयस्य क्षये संजाते सति ज्ञानदर्शनावरणान्तराय + क्षयः तदनन्तरं तावत् केवल + ज्ञानं भवति। सूत्रे मोहक्षयात् इति हे + तौ पञ्चमी, मोहक्षयादिति पृथक्करणं क्रमप्रसिद्ध्यर्थं ज्ञेयम्।
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116