Book Title: Syadwad Manjari Author(s): Motilal Ladhaji Publisher: Motilal Ladhaji View full book textPage 3
________________ आहेतमतप्रभाकरपरिचयः। अयि श्रेष्टा विद्वांसः सज्जनवरेण्याश्च । शासनदेवकृपाकटाक्षवशात् अल्पमतेरपि मम बाल्यादेव स्वामान्याध्ययने मतिरभूत् । ततो मया यावच्छक्यं साधनान्युपयुज्य सपरिश्रममध्ययनमारभ्यत । तदानीं प्रतिपदमनुभूतिपदमारूढं यत् संस्कृतप्राकृतजेनग्रन्थानां दौलभ्यम् । केचन ग्रन्था अद्यावधि न मुद्रिताः केचन मुद्रिता अपि दुर्लभाः । सुलभा अपि मुद्रिताः केचित् न विद्यार्थिन उपकुर्वन्ति विषयवैशद्यबोधकटिप्पनीपाठान्तरादिरहितत्वात् । तदेतदाकलय्य मनसि किंचिदिव पूर्वोक्तत्रुटीरपाकर्तुं 'आहेतमतप्रभाकर नाम्नी संस्थामस्थापयम । संस्थया चानया जैनसंस्कृतप्राकृतभाषामया न्यायव्याकरणाध्यात्मिकागमादिग्रन्था मुद्रणीया वक्ष्यमाणरीत्या । १ अधुना सर्वसंमता पुस्तकाकृतिरालम्बनीया ग्रन्थानाम् । पुस्तकानि च घनचिक्कगपत्रात्मकानि (डेमी अष्टपेजी) भवेयुः। २ अधोभागे विषयार्थबोधिन्यष्टिप्प-यो मुद्रणीयाः ३ ग्रन्थकृदुध्दतानि सर्वाणि वचांसि ग्रन्थनामस्थलादिनिर्देशपूर्वकं दर्शनीयानि टिप्पन्याम। ४ यावच्छक्यं प्राचीनपुस्तकानि तालादिपत्रलिखितानि समुच्चित्यार्थभेददर्शकानि पाठान्तराणि संग्राह्याणि । ५ आदी सविस्तरमुपोद्भातः संस्कृतभाषया निबन्धनीयो यत्र च ग्रन्थस्यान्तरङ्गबहिरङगपरीक्षण ग्रन्थकृच्चरितमैतिहासिकदृष्टयाऽन्ये च तदुपयुक्ताः समयान्तरीयशास्त्रीयनिर्देशाः संग्रथनीयाः । ६ एतस्मिन् सवेस्मिन गुणजाते द्रव्यादिव्ययमविगणय्य संपादितेऽपि यावच्छक्य ग्रन्थानां मूल्याल्पता संपादनीया । एतत्कायं विना विदुषां करुणकपक्षपातिनां साहाय्यं न सेत्स्यतीति दृढं प्रत्येमि तदर्थं सर्वे विद्वांसः संप्राथ्येन्ते यावच्छक्यं लिखितग्रन्थापणन संशोधनेन च तैरुपकृतिः संपादनीयति । अधुना शासनदेवकृपया प्राच्यविद्याविशारदानां नव्यसंस्कारमंस्कृतानां पण्डितानां च साहाय्यमलम्भि मया। तत्साहाय्येनैव १ प्रमाणमीमांसा २ सभाष्यतत्त्वार्थसूत्राणि ३ स्याद्वादमञ्जरी ४ औपपातिकसूत्रााण इति ग्रन्थचतुष्कं आहृतमतप्रभाकरमयूखचतुष्करूपं प्राकाशि। अतः परं १ धर्मसंग्रहणी २ स्याद्वादरत्नाकरः ३ हैमव्याकरणम् ४ छन्दोऽनुशासनम् ५ मूत्रकृताङ्गम् । इत्यादयो ग्रन्थाः प्रकाशनीया इति संकल्पः । अत्र विद्वद्भिः साहाय्यदानेनानुग्राह्योऽहमिति साञ्जलिबन्धं सप्रश्रयं संप्रार्थकःआईतमतप्रभाकरकार्यालयः । विद्वद्वशंवदः भवानीपेठ घ. नं. १९६ पना. मोतीलाल लाधाजीPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 320