Book Title: Syadwad Manjari Author(s): Motilal Ladhaji Publisher: Motilal Ladhaji View full book textPage 6
________________ (२) दस्य समवायस्य च खण्डनम् । श्लो. ८ सत्तापदार्थस्य, आत्मव्यतिरिक्तज्ञानगुणस्य आत्मावशेषगुणोच्छेदरूपाया मुक्तश्च खण्डनम् । श्लो. ९ देहादतिरिक्तात्मनः खण्डनम् । श्ला. १० अक्षपादगृहीतपदार्थानां खण्डनम् । श्लो. ११ यज्ञियहिंसायाः खण्डनम् । श्लो. १२ नित्यपरोक्षज्ञानवादिनां मी. मांसकानां, एकात्मसमवायिज्ञानान्तरवेद्यज्ञानवादिनां नैयायिकानां च मतस्य खण्डनम् । श्लो. १३ मायावादखण्डनम् । श्लो. १४ स्वमतप्रतिपादनपुरःसरं मतान्तरप्रकल्पितसामान्यविशेषवाच्यवाचकभावखण्डनम् । श्लो. १५ सांख्याभिमतप्रकृतिपुरुषवादखण्डनम् । श्लो. १६ प्रमाणाभिन्न प्रमाणफलं, बाह्यार्थो नास्ति केवलं ज्ञानाद्वैतमेवास्तीति बौद्धमतस्य खण्डनम् श्लो. १७ शून्यवादिमतस्य खण्डनम् । श्लो. १८ क्षणिकवादिमतस्य खण्डनम्। श्लो. १९ बौद्धाभिमतवासनायाः खण्डनम । श्लो. २० चार्वाकमतस्य खण्डनम् । श्लो. २१ एकान्तवादिमतस्यं खण्डनम् । श्लो. २२-२७ स्याद्वादस्थापना । श्लो. २८ दुर्नयनिराकरणपूर्वकं प्रमाणनयनिरूपणम् । श्लो. २९ जीवानन्त्यवादस्थापनम् । श्लो. ३०-३२ श्रीवर्द्धमानस्तुतिः । एवं दुर्गमविषया अपि श्लोकैः श्रीहेमचन्द्राचार्यैः सरलसरससरण्या प्रतिपादितास्तेन सहृदयैः कोऽप्यमन्दानन्दोऽनुभूयते । तत्र मध्ये मध्ये प्रतिवाद्युपहासोऽपि तथैव सरण्या प्रतिपादितो यथा नारुन्तुदो भवति । किं च वासनाखण्डनप्रसंगे १९ तमे श्लोके ' तटादर्शिशकुन्तपोतन्यायात्' इत्यादिप्रतिपादनं तु विशेषतो हृद्यम् । एतस्याः प्रणेतृणां कलिकालसर्वज्ञश्रीहेमचन्द्राचार्याणां चरितं प्रबन्धाः प्रबन्धप्रणयनयोग्यतादिकं चास्माभिः 'आहतमतप्रभाकरस्य' प्रथमकिरणभूतायां प्रमाणमीमांसायां सविस्तरमुपपादितम् । तेनात्र पुनरुक्तिभयान्न लिख्यते । दिदृक्षुभिस्तत एवालोचनीयम्। २ स्याद्वादमञ्जरी। अयमद्वितीयो ग्रन्थः 'अन्ययोगव्यवच्छेदिकाया' व्याख्यारूपः । इयं व्याख्या मूलग्रन्थानन्तरं संवत्सरशतद्वये समभूत् । यतः श्रीहेमचन्द्राचार्याणां सूरिपदप्रातिसमयः शालिवाहनशकः १०३१ श्रीमल्लिषेणानां ग्रन्थसमाप्तिसमयः शालिवाहनशकः १२१४ । एतादृशग्रन्थस्य व्याख्या न साधारणपाण्डित्यसुलभा यतोऽत्र बहूनां तत्तच्छास्त्रसमयानां खण्डनम् ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 320