Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 20
________________ (१६) विपाककालः तत्तथा तदा विनियुक्त इति । यः पुनरीश्वरं कर्मानपेक्षं कारणत्वेन प्रतिपद्यते तस्यानिर्मोक्षत्वादिदोषः । सापेक्षे त्वीश्वरे यथोक्तो न दोषः । शेष भाष्ये । ( वात्स्यायनभाष्यम् -' पुरुषकारमीश्वरोऽनुगृह्णाति फलाय पुरुषस्य यतमानस्येश्वरः फलं सम्पादयतीति । यदा न सम्पादयति तदा पुरुषकर्माफलं भवतीति । तस्मादीश्वरकारितत्वादहेतुः पुरुषकर्माभावे फलानिष्पत्तरिति । गुणविशिष्टमात्मान्तरमीश्वरः । तस्यात्मकल्पात्कल्पान्तरानुपपत्तिः । अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसम्पदा च विशिष्टमात्मान्तरमीश्वरः । तस्य च धर्मसमाधिफलमणिमाद्यष्टविधमैश्वर्यम् । सङ्कल्पाविधायी चास्य धर्मः प्रत्यात्मवृत्तीधर्माधर्मसञ्चयान्पृथिव्यादीनि च भूतानि प्रवर्तयति । एवं च स्वकृताभ्यागमस्यालोपेन निर्माणप्राकाम्यमीश्वरस्य स्वकृतकर्मफलं वेदितव्यम् । आत्मकल्पश्चायं यथा पितापत्यानां तथा पितृभूत ईश्वरो भूतानाम् । न चात्मकल्पादन्यः कल्पः सम्भवति । न तावदस्य बुद्धिं विना कश्चिद्धर्मो लिङ्गभूतः शक्य उपपादयितुम् । आगमाच्च द्रष्टा, बोद्धा, सर्वज्ञाता, ईश्वर इति । बुध्दयादिभिश्वात्मलिङ्गैनिरूपाख्यमीश्वरं प्रत्यक्षानुमानागमविषयातीतं कः शक्त उपपादयितुम् । स्वकृताभ्यागमलोपेन च प्रवर्तमानस्यास्य यंदुक्तं प्रतिषेधजातमकर्मनिमित्ते शरीरस तत्सर्वं प्रसज्यत इति ।।२१।।')(वार्तिकं पूर्वतोऽनुवृत्तम् ) तत्कारितत्वादित्येवं ब्रुवता निमित्तकारणमीश्वरः इत्युपगतं भवति । यच्च निमिततदितरयोःसमवायिकारणासमवायिकारणयोरनुग्राहकम् , यथा तुर्यादितन्तूनां तत्संयोगानां चेति । ईश्वरश्चेजगतो निमित्तं जगतः साक्षादुपादानकारणं किम् । उक्तं पृथिव्यादि परमसूक्ष्मं परमाणुसज्ज्ञितं द्रव्य(व्यक्त) मिति । व्यक्तकारणाभ्युपगमे तु सति निमित्तविशेषविप्रतिपत्तौ ईश्वरप्रक्रिया-यस्मानिमित्तकारणे विप्रतिपद्यन्ते केचित् कालं केचिदीश्वरं केचित्प्रकृतिमिति तदेवं निमित्तविशेषविप्रतिपत्तौ किं न्याय्यमिति । ईश्वर इति न्याय्यं तत्र हि प्रमाणानि अविघातेन प्रवर्तन्त इति । अस्तित्वासिद्विरिति चेत् ? अथ मन्यसे सिद्ध ईश्वरस्यास्तित्वे कारणान्तरनिराकरणं निमित्तकारणाभावश्च साध्येत, तत्त्वसिद्धं तस्मादयुक्तमिति ? न, अत एव तदुत्पत्तेः इति-येनैव न्यायेन ईश्वरस्य कारणत्वं सिध्यति तेनैवास्तित्वमिति, न विद्यमानं कारणमिति । कः पुनरीश्वरस्य कारणत्वे न्यायः ? अयं

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 320