Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 18
________________ (१४) द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नान्यः सत्तायोगोऽस्ति । एवमविभागिनो वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति तस्मात् स्वात्मवृत्तिः अत एवातीन्द्रियः सत्तादीनामेव प्रत्यक्षेषु वृत्त्यभावात् स्वात्मगतसंवेदनाभावाच्च । तस्मादिहबुध्द्यनुमेयः समवाय इति' ॥ __ श्लो. ६ स्याद्वादमञ्जर्यां च ईश्वरकर्तृकत्वादि खण्ड्यते तदर्थं तद्विषयकं वैशेषिकमतं प्रदर्श्यते कणादसूत्रे (अ. २-१,१८,१९.) उपस्कारसहिते। . 'संज्ञा कर्म त्वस्माद्वाशष्टानां लिङ्गम् ॥ २-१-१८ ॥ तुशब्दः स्पर्शादिलिङ्गव्यवच्छेदार्थः संज्ञा-नाम, कर्म- कार्य मित्यादि, तदुभयमस्मद्विशिष्टानाम् ईश्वर-महर्षीणां सत्त्वेऽपि लिङ्गम् ॥ १८॥ कथमेतदित्यत आह- . प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः ॥ २-१-१९ ॥ अत्रापि संज्ञा च कर्म चेति समाहारद्वन्द्वादेकवद्भावः संज्ञाकर्तुर्जगत्कर्तुश्चाभेदसूचनार्थः । तथाहि यस्य स्वर्गापूर्वादयः प्रत्यक्षाः स एव तत्र स्वर्गापूर्वादिसंज्ञाः कर्तुमीष्टे प्रत्यक्षे चैत्रमैत्रादिपिण्डे पित्रादेश्चैत्रमैत्रादिसंज्ञानिवेशनवत् । एवञ्च : घटपटादिसंज्ञानिवेशनमपि ईश्वरसङ्केताधीनमेव यः शब्दो यत्रेश्वरेण संकेतितः स तत्र साधुः यथा या काचिदोषधिर्नकुलदंष्ट्राग्रस्पृष्टा सा सर्वापि सर्पविषं हन्तीत्येताहशी संज्ञा अस्मदादिविशिष्टानां लिङ्गमनुमापकं यापि मैत्रादिसंज्ञा पित्रा पुत्रे क्रियते सापि 'द्वादशेऽहनि पिता नाम कुर्यात् ' इत्यादिविधिना नूनमीश्वरप्रयुक्तैव । तथा च सिद्धं संज्ञाया ईश्वरलिङ्गत्वम् । एवं कर्मापि। कार्यमपीश्वरे लिङ्गम् । तथाहि क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदिति । अत्र यद्यपि शरीराजन्यं जन्यं वा जन्यप्रयत्नाजन्यं जन्यं वा सकर्तृकत्वास. कर्तृकत्वेन विवादाध्यासितं वा सन्दिह्यमानकर्तृकत्वं वा क्षित्यादित्वेन न विवक्षितम् अदृष्टद्वारा क्षित्यादेरपि जन्यप्रयत्नजन्यत्वात् विवादसन्देहयोश्वातिप्रसक्तत्वेन पक्षसानवच्छेदकत्वात् , किञ्च सकर्तृकत्वमपि यदि कृतिमज्जन्यत्वं तदास्मदादिना सिद्धसाधनम् । अस्मदादिकृतेरप्यदृष्टद्वारा क्षित्यादिजनकत्वात् , उपादानगोचरकृतिमज्जन्यत्वेऽपि तथास्मदादिकृतेरपि


Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 320