Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 21
________________ (१७) न्यायोऽभिधीयते प्रधानपरमाणुकर्माणि प्राक्प्रवृत्तेबुद्धिमत्कारणाधिष्ठितानि प्रवर्तन्ते अचेतनत्वात् वास्यादिवदिति-यथा वास्यादि बुद्धिमता तक्ष्णा अधिष्ठितमचेतनत्वात् प्रवर्तते तथा प्रधानपरमाणुकर्माणि अचेतनानि प्रवर्तन्ते तस्मात् तान्यपि बुद्धिमत्कारणाधिष्ठितानीति । तत्र प्रधानकारणिकास्तावत् पुरुषार्थमधिष्ठायकं प्रधानस्य वर्णयन्ति-पुरुषार्थेन प्रयुक्तं प्रधान प्रवर्तते, पुरुषार्थश्च द्वेधा भवति शब्दाद्युपलब्धिर्गुणपुरुषान्तरदर्शनं चेति तदुभयं प्रधानप्रवृत्तेविना न भवतीति? न, प्राक्प्रवृत्तेस्तदभावात्-यावत्प्रधानं महदादिभावेन न परिणमते तावन्न शब्दाद्युपलब्धिरस्ति न गुणपुरुषान्तरोपलब्धिरिति हेत्वभावात् प्रधानप्रवृत्तिरयुक्ता । अथास्ति, नासदात्मानं लभते न सन्निरुध्द्यत इति ? एवं च सति विद्यमानः पुरुषार्थः प्रधानं प्रवर्तयतीति न पुरुषार्था. (य) प्रधानस्य प्रवृत्तिः-न हि लोके यद्यस्य भवति स तदर्थं पुनर्यतत इति । सततं च प्रवृत्तिः प्राप्नोति कारणस्य सन्निहितत्वादिति-पुरुषार्थः प्रवृत्तेः कारणमिति पुरुषार्थस्य नित्यत्वात् सततं प्रवृत्त्या भवितव्यमिति । अथ विद्यमानोऽपि न प्रवर्तयति ? न तर्हि पुरुषार्थः कारणमिति यस्याभावात् प्रधानं न प्रवर्तते यस्य च भावात् प्रवर्तते तत्कारणमिति । अथ विद्यमानः प्रतिबन्धान प्रवर्तयति ? प्रतिबन्धापगमस्याशक्यत्वात् सततमप्रवृत्तिः-यत्तत्र प्रतिबन्धकारणं पुरुषार्थस्य तस्यापगमः कर्तुमशक्यः न सदात्मानं जहातीति प्रतिबन्धकस्य नित्यत्वान्नित्यमप्रवृत्त्या भवितव्यम् । यदा भवन्तः सत्त्वरजस्तमसां साम्यावस्थां प्रकृति वर्णयन्ति सा कुतो निवर्तत इति वक्तव्यम् ? न चानिवृत्तायां साम्यावस्थायां वैषम्येण शक्यं भवितुम् । अथाङ्गाङ्गिभावस्यानियमाद्वैषम्यं भवतीति ? अत्रापि भवन्तं पर्यनुयुक्ष्महे कथं साम्येनावस्थितमधिकं हीनं च भवति ? नापूर्वोपचये विद्यते न पूर्वहानमस्तीति । यांश्च शब्दादीन् प्रागनुपलब्धस्वरूपान् पुरुषमुपलभते बुद्धिरुपलम्भयति ते किमुपजातविशेषा उतानुपजातविशेषा इति ? यापजातविशेषा उपलभ्यन्त इति ? व्याहतं भवति नासदात्मानं लभत इति । अथानुपजातविशेषा एवोपलभ्यन्ते ? तथाप्यनिवृत्तो व्याघातः प्रधानं पुरुषार्थः प्रवर्तयतीति । सोऽयं प्रधानवादो यावद्यावद्विचायते तावत्तावत्प्रमाणवृत्तं बाधत इति ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 320