Book Title: Syadwad Manjari Author(s): Motilal Ladhaji Publisher: Motilal Ladhaji View full book textPage 7
________________ तदर्थमपेक्ष्यत व्याख्यातुः सकलशास्त्रीयपाण्डित्यं परमतसहिष्णुतया प्रतिपादनशैली च । तदुभयमप्यत्र स्याद्वादमञ्जरीव्याख्यायां वरीवर्ति । यतः सर्वपरसमयादिप्रतिपादनं यावच्छक्यं याथातथ्येन ग्रन्थनामनिर्देशपुरःसरं प्रत्यपादि व्याख्यायामस्याम् । एतस्याः स्याद्वादमञ्जर्याः प्रणेतृणां श्रीमल्लिपेणमुरीणां जन्मकालादिवृत्तं न ग्रन्थकृदन्तरवदनुमेयमिति महदेव सौभाग्यम् । यत एभिरेव सूरिभिः स्वयमेव ग्रन्थान्ते प्रशस्तिकायां न्यबन्धि तत्सर्वम् । तथाहिनागेन्द्रगच्छगोविन्दवक्षोऽलङ्कारकौस्तुभाः। ते विश्ववन्द्या नन्द्यासुरुदयप्रभसूरयः॥ श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । वृत्तिरियं मनुराविमित (१२१४) शाकाब्दे दीपमहसि शनौ ॥ श्रीजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा। . श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी ॥ श्लोकत्रयेणानेनैतत्प्रतीयते यत्-श्रीमाल्लषेणमूरयः शालिवाहनशाके १२१४ मिते वत्सरे दीपावलिदिने शनिवासरे ग्रन्थमिमं समापयामासुः । एते च नागेन्द्रगच्छीय उदयप्रभसूरिशष्या आसन् । श्रीजिनप्रभसूरीणां साहाय्येन चायं ग्रन्थो व्यरचीति । अत्र उदयप्रभमूरीणां जिनप्रभसूरीणां च परिचयार्थं किंचिन्निर्दिश्यते । उदयप्रभमूरिभिः १ आरम्भसिद्धिः २ धर्माभ्युदयमहाकाव्यम् । ३ उपदेशमालाकर्णिकात्तिः। इत्यादयो ग्रन्थाः प्रणीताः । नागेन्द्रगच्छीयाचार्याणां श्रीमल्लिषेणमूरिसम्बद्धानां या परम्परास्माभिर्लब्धा मात्र प्राप्तकालेति निर्दिश्यते । तथाहि१ श्रीशीलगुणसूरयः । तच्छिष्याः २ श्रीदेवचन्द्रमूरयः । तच्छिष्यदयम् । ३ (१) श्रीशलिरुद्रगणयः (२) श्रीपार्श्वलगणयः तदुभयशिष्याः ४ श्रीमहेन्द्रसूरयः। तच्छिष्याः ५ श्रीशान्तिसूरयः। तच्छिष्यद्वयम् ६ (१) श्रीआनन्दसूरयः । (२) श्रीअमरचन्द्रसूरयश्च । श्रीआनन्दसूरिPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 320