Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 10
________________ एवंरीत्या संमुय विदुषां पुरतो निधीयते पुस्तकमेतत् शासनदेवकूपया। संप्रार्थ्यन्ते च सुधियो यदालोच्य सर्व त्रुटयो ज्ञाप्यास्तैर्येन संस्करणान्तरे प्रयतिष्ये तज्ज्ञापनानुसारम् । प्रमोदावहं स्वकर्तव्यं निवेद्यते यदन्तरा समापयितुं न पारयामि प्रास्ताविकं तदेतन्मान्यानां पं. व्याकरणाचार्यवेदान्तवागीशपाटकोपनामश्रीधरशास्त्रिणामनुग्रहभरनिर्देशो नाम । महाभागैः सहृदयैरेभिः कार्यकालव्ययमविगणय्य शास्त्रीयग्रन्थबद्धादरेणोपकृतोऽहं सर्वथा प्रकाशनेऽस्य ग्रन्थस्य । यदि न स्यात्साहाय्यमेतेषां तर्हि प्रकाशनकार्यं विशदार्थबोधकटिप्पनीयुतं प्रास्ताविकं सर्वाङ्गीणं नैव मया प्रकाशयितुं शक्यतेति निर्दिशनहमल्पांशेनापि आत्मानमत्युक्तिभाजनं करोमि । किं च 'ओसवालवणिग्वंशज श्रेष्ठि शान्तिलाल भगवानजी ' ( कार्याधिपो जैन प्रिंटिंग वर्क्स ) एतेषां महाशयानामनुग्रहभरोद्वहनं स्वकर्तव्यं मन्ये । अतः परं सर्वान् विदुषो विज्ञापयामि यदत्र समुपलभ्यमानान् दोषान्विज्ञाप्यानुप्राह्योऽयं जन इति संप्रार्थकः। । पुण्यपत्तनम् विद्वद्वशवंदः आश्विनाष्टाह्निकम् वीरसंवत् २४५२. . मोतीलाल लाधाजी

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 320