________________
स्यादिशब्दसमुच्चयः ।
सर्वनामगणेऽन्यादि तमप्रत्ययावधिः । पूर्वादिरन्तरान्तस्तु त्यदादिर्व्यवधिः पुनः || १॥
[६१]
अथ सर्वनामगणशब्दाः - सर्व १ विश्व २ उभ ३ उभयद् ४ अन्य १ अन्यतर २ इतर ३ उतर ४ डतम् ५ त्व १० त्वत् ११ नेम १२ सम १३ सिमौ १४ सर्वार्थो 1 पूर्व १ परा २ वर ३ दक्षिणो ४ तरा ५ परा ६ धराणि व्यवस्थायाम् ७ । स्वमज्ञातिधनाऽऽख्यायाम् ८ । अन्तर बहि योगोपसंव्यानयोरपुर ९ । २३ । त्यद् १ तद् २ यद् ३ अदस् ४ इदम् ५ एतद् ६ एक ७ द्वि ८ । ३१ । युष्मद् ३२ भवतु ३३ अस्मद् ३४ किम् ३५ इत्यसंज्ञायां सर्वादिः ॥ कातन्त्रे किञ्चिद् व्यस्ताः ॥
सर्वः सर्वौ “जस इः” ॥ १।४।९॥ सर्वे । सर्वम् सर्वान् । सर्वेण सर्वाभ्याम् सर्वैः । “सर्वादेः स्मैस्मातौ" ॥ १ । ४ । ७ ॥ सर्वस्मै । सर्वस्मात् सर्वेभ्यः । सर्वस्य सर्वयोः “अवर्णस्याऽऽमः साम्” ॥ १ । ४ । १५ ॥ सर्वेषाम् । “ङेः स्मिन्” ॥१|४|८|| सर्वस्मिन् सर्वेषु । आ० " अदेतः स्यमोर्लुक्” ||१|४|४४ ॥ हे सर्व हे सर्वो हे सर्वे । “त्यादि -- सर्वादेः स्वरेष्वन्त्यात् पूर्वोक्” ||७|३|२९|| सर्वकः सर्वकौ सर्वके । इत्यादि सर्वावत् । स्त्रियाम् - "आत्" ॥२२४॥१८॥ आप् सर्वा श्रद्धावत् परं "आपो ङितां यैयास्यास्याम्"" ||१|४|१७|| "सर्वादेर्डस्पूर्वाः " ||१|४|१८|| "डित्यन्त्यस्वरादेः " ॥२|१|११४॥ सर्वस्यै। सर्वस्याः २ | "अवर्णस्याऽऽमः साम्” ||१|४|१५ ॥ सर्वासाम् । आ० श्रद्धावत् । अकि "अस्यायत्तत्-क्षिपकादीनाम्" ॥२|४|१११॥ सर्विका सर्वावत् । क्लीबेसर्वम् सर्वे सर्वाणि २ । आ० हे सर्व इत्यादि । सर्वकम्