Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 11
________________ *: ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात्तपः ** श्रीसूत्रकृताङ्ग चूर्णिः ॥११॥ शासनपतिश्रीमन्महावीरप्रभुणा कैवल्यरत्नाप्त्यनन्तरमेकादश विप्राः प्रव्राज्य गणधररूपेण स्थापिताः । भगवता तेभ्य 'उपन्नेइ वा विगमेइ वा धुवेइ वा' इतिस्वरूपा त्रिपदी प्रदत्ता । तस्यास्तैरन्तर्मुहूर्त्तमात्रेणार्धमागध्या भाषया द्वादशाङ्गी विरचिता। द्वादश अङ्गानि एवं ज्ञेयानि - (१) आचाराङ्गसूत्रम्, (२) सूत्रकृताङ्गसूत्रम्, (३) स्थानाङ्गसूत्रम्, (४) समवायाङ्गसूत्रम्, (५) व्याख्याप्रज्ञप्त्यङ्गसूत्रम्, (६) ज्ञाताधर्मकथाङ्गसूत्रम्, (७) उपासकदशाङ्गसूत्रम्, (८) अन्तकृद्दशाङ्गसूत्रम्, (९) अनुत्तरौपपातिकदशाङ्गसूत्रम्, (१०) प्रश्नव्याकरणसूत्रम्, (११) विपाकसूत्रम्, (१२) दृष्टिवादश्च । एकादशानां गणधराणां द्वादशाङ्ग्य: सूत्ररूपेण भिन्ना अर्थरूपेणाऽभिन्नाः । पञ्चमगणभृच्छ्रीमत्सुधर्मस्वामिप्रणीता द्वादशाङ्गी पञ्चमारके प्रवृत्ता । कालक्रमेण | दृष्टिवादो व्यवच्छिन्नः । अधुनैकादशाङ्गान्युपलभ्यन्ते । तत्र द्वितीयमङ्गं श्रीमत्सूत्रकृताङ्गसूत्रम् । तस्य शास्त्रीयपरिमाणं षट्विशत्सहस्रपदानि । सम्प्रत्युपलभ्यमानस्य श्रीसूत्रकृताङ्गसूत्रस्य परिमाणमेकविंशतिशतानुष्टब्वृत्तानि । श्रीसूत्रकृताङ्गसूत्रे द्वौ श्रुतस्कन्धौ स्तः । तत्र प्रथमः श्रुतस्कन्धः षोडशाध्ययनात्मको | द्वितीयश्च श्रुतस्कन्धः सप्ताध्ययनात्मकः । द्वितीय श्रुतस्कन्धवत्तिसप्ताध्ययनान्येवंनामानि - पौण्डरीकाध्ययनम्, क्रियास्थानाध्ययनम्, | आहारपरिज्ञाध्ययनम्, प्रत्याख्यानक्रियाध्ययनम्, अनाचार श्रुताध्ययनम्, आर्द्रकीयाध्ययनम्, नालन्दीयाध्ययनञ्च । ॥११॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 480