Book Title: Sutrkritang Sutram Pratham Shrutskandh Author(s): Punyakiritivijay Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust View full book textPage 9
________________ सम्पादकीयम् श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 7 // ॥सम्पादकीयम् // आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः। देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्त्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य अयं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। जिनमुखाम्बुदोद्गतं श्रुतज्ञानमङ्गप्रविष्टमस्ति / अङ्गप्रविष्टं श्रुतज्ञानं द्वादशविधमस्ति / तस्मिन् द्वितीयाने सूत्रकृताङ्गमस्ति, तस्य एकार्थिकानि अमूनि (1) सूत्कृतं = सूत् = उत्पन्नमर्थरूपतया तीर्थकृट्यस्तत: कृतं ग्रन्थरचनया गणधरैरिति / (2) सूत्रकृतमिति सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति / (3) सूचाकृतमिति स्वपरसमयार्थसूचनं सूचा, सा कृताऽस्मिन्निति / साधवः प्रतिदिनं आवश्यकक्रियायां प्रतिक्रमणसूत्रे सोलसहिंगाहासोलसेहि'सूत्रेण सूत्रकृताङ्गे प्रथमश्रुतस्कन्धे स्थितानि षोडशाध्ययनानि स्मरन्ति तानि षोडशाध्ययनानि। प्रथमं समयाध्ययनं तस्मिन् स्वपरसमयः प्ररूपितः। द्वितीयं वैतालीयमध्ययनं- तस्मिन् यथा कर्म विदार्यते तथा बोधः क्रियते। तस्मिन् विदारको विदारणं विदारणीयं च दर्श्यते / तृतीयं उपसर्गाध्ययनं-तस्मिन् प्रतिबुद्धस्य कदाचिदनुकूलप्रतिकूलोपसर्गाः प्रादुर्भवेयुस्तस्य प्ररूपणा / चतुर्थ स्त्रीपरिज्ञाऽध्ययनं- तस्मिन् स्त्रीकृता अनुकूला उपसर्गा दुःसहास्तज्जयार्थमुपदेशः / पञ्चमं नरकविभक्त्यध्ययनंतस्मिन् उपसर्गभीरो: नरकपातो भवति तस्य प्ररूपणा / षष्ठं श्रीवीराऽध्ययनं तस्मिन् नरकविभक्तिः श्रीमहावीरस्वामिना प्रतिपादिता। सप्तमंकुशीलपरिभाषाऽध्ययनं- तस्मिन् श्रीमहावीरस्य गुणोत्कीर्तनतः सुशीलपरिभाषोक्ता तदनन्तरं तद्विपर्यस्ताः कुशीला: परिभाष्यन्ते। अष्टमं श्रीवीर्याख्याध्ययनं- तस्मिन् कुशीलत्वं सुशीलत्वं च संयमवीर्यान्तरोदयात्तत्क्षयोपशमाच्च भवति तत्प्रतिपादितम् / नवमPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 520